सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्थनस्या- १५० पटलः ] गोपीनाथभट्टकृतज्योतसाव्याख्यासमेतम् । ६०३ भेद इति द्रष्टव्यम् । यूपस्येतिशम्मप्रवृतिर्माविनी संज्ञामादाय यदाहवनीये जुडतीत्या- हवनीयशब्दप्रवृत्तिवत् । चकारोऽनुक्तस्रुवादिसमुच्चयार्थः । यूपस्येतिवचनमाहवनीय- प्राग्नशदेवयजनन्यावृत्यर्थम् । अन्तिक इतिवचनं दूरदेशव्यावृत्त्यर्थम् । अग्निं मधि- स्वेतिवचनं यूपस्यान्तिकेऽरण्योरेव कदाचिद्धोमः स्यात्स्थाण्याहुतिवत्स मा भूदित्ये- तदर्थम् । अरणी आदाय मथित्वेत्येतावत्युच्यमानेऽप्यदिग्निलाभेऽग्निग्रहणमिदं मन्धन निर्मकमपूर्वमिति द्योतयितुम् । तेनारण्योलौकिकत्वं तूष्णीमेव मन्थनमिति च सिध्यति । अन्यर्थमायतनं कृत्वोद्धत्यावोक्ष्याग्निं निधाय होमः । मथित्वेति क्त्वाप्रत्ययेन यूपाहुन तावव्यवहितोत्तरत्वमेवोच्यत इत्युक्तावपि प्रोक्षणीसंस्कारसुवसमार्गाज्यसंस्कारैमध्ये को रप्यव्यवहितोत्तरत्वं बाधित न भवति तदङ्गत्वेन तदनुगुणल्वात्, येन नाव्यवधान तेन व्यवहितेऽस्यव्यवहितत्वस्याबाधात् । यूपाहुति इस्वेतिवचनमेतद्वचनाभावे . न यूपाहुति होतीति पूर्वमूत्रानिषेधः प्राप्नुयात्तत्प्राप्तौ सत्या दृष्टार्थत्वं च स्यात्तन्मा भूदित्येतदर्थम् । यूपच्छेदनमात्राभूताऽऽहुतिपाहुतिः । यूपग्रहणं विस्पष्टार्थम् । जुहोतीति परित्यज्य हुत्वेत्येवं वचनं यूपं छिनत्ती- त्यस्य सप्रयोजनस्याऽऽकाक्षाया उत्थापनार्थम् । यूपं छिनत्ति स्वरुचषालक : रणान्तेन प्रकारेणेत्यर्थः । यूपं छिनत्तीतिवचनं प्रायश्चित्तपशुसहभावेऽप्येक एवं यूप इति प्रदर्शयितुम् । एकयूप आलभत इति श्रुतिरपि अत्र साधिका । पालिक एकादशयूपपक्षस्तु वाचनिक एकादशिन्याम् ।

क्रीते वा राजन्याहवनीये यूपाहुतिꣳ हुत्वा यूपं छिनत्ति ।

दण्डप्रदानानन्तरमिति केचित् । स्वजा असीत्यन्त इत्यन्ये । उदु सं जातवेदस- मिति कृत इति परे । अग्निर रानानमितिषानन्तरमित्यपरे । वस्तुतः श्री सोमे. मैत्रावरुणाय दण्डं प्रयच्छतीति क्रयाव्यवहितोत्तरं दण्डप्रदान विहित क्रीते वा राज- नीति क्रयाव्यवहितोत्तरं यूपाहुत्यादि विहितं तत्रोभयोः कर्तृभेदारसमकालत्वसंभवेन यजमानेन दण्डप्रदाने क्रियमाणे तत्समय एव यूपाहुतिरध्वर्युणा होतव्येत्येव युक्तम् । यथा दण्डप्रदानयूपाहुतिक्रिययोः समाप्तिः समकाले भविष्यति तथा यतितव्यं द्रव्यत्या- गानुरोधेन त्यागस्तु क्रयप्रदेशोपविष्टेनैव कर्तव्यः । आहवनीयग्रहणमपि वाऽऽज्यमरणी चाऽऽदाय यूपस्यान्तिकेऽग्निं मथित्वेयतत्प्रकारच्यावृत्त्यर्थम् । यूराहुति हुत्वेतिवचनं न यूपाहुति जुहोति होमार्थामृचं जपित्वाऽभिप्रवनतीत्येतस्य कल्पस्य व्यावृत्त्यर्थम् । नन्विदमाहवनीयस्याधिकरणत्वविधानबलादेव सेत्स्यति यूपाहुति हुत्वेत्याकाङ्क्षापूरण- मात्रार्थोऽनुवाद इति चेन्न । कोते वा रानन्याहवनीय इत्येतावत्युच्यमाने सप्तम्या: सामीप्यार्थकत्वमादायाऽऽहवनीयसमीपे अपं कृत्वाऽभिप्रवनतीति आहवनीय उपप्तमीप नीत्वा तत्समीप एव च्छिनतीत्येतादृशमर्थद्वयं संभाव्येत तन्मा भूदित्येतादृशार्यव्यावृ- ५