सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सत्याषाढविरचितं श्रौतसूत्र- [सप्तमश्वे- मनुरपि- प्रभुः प्रथमकल्सस्य योऽनु कल्पेन वर्तते । न सांपरायिक तस्य दुर्भते विद्यते फलम् ॥ इति । स्मृत्यन्तरेऽपि- प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । स नाऽऽमोति फलं तस्य दोषं चैवाधिगच्छति ॥ इति । यो हि अस्पदक्षिणयज्ञ आत्विज्यनिषेधः स समर्थक काल्पदाक्षिणयज्ञविषयों द्रष्टव्यः । यद्यपीदं सूत्रं यानमानसूत्र एवं पठित युक्त तथाऽपि अभिधारणान्तवेद्यासा- दनसंप्रेषद्वाराऽध्वर्यसंबन्धादत्र पाठ इति द्रष्टव्यम् । ददातीत्यत्रान्तरिता णिज्वा द्रष्टव्यः।

ध्रुवायाः शेषं करोति ।

भुनाशब्देन तद्गतमाय लक्षणया गृह्यते मच्चाः क्रोशीत्यत्र मञ्चशब्दस्य तत्स्थ- पुरुषलक्षकत्वमिव । तात्पर्यानुपपत्तिरत्र लक्षणाबीनम् । धृवागतस्याऽऽज्यस्य शेष करोति स्थापयतीत्यर्थः । धुवाया इत्यनन्तरमाज्यस्येति शेषो वा । धुवासंबन्धिन आज्यस्य शेष करोतीति तदर्थः । सप्तम्यर्थे षष्ठी वा । शेष करोतीतिवचनास्विष्टकछ- भिधारणद्वये ध्रुवाया नाऽऽप्यायनं धुन ज्यस्य शेषत्वसंपादनाय । तत्र तत्राऽऽप्यायनं हि पूरणार्थम् । पूरितस्य शेषत्वं न संभवति । अत आप्यायननिषेध एवैतस्य विधेः पर्य- वसानम् । स्विष्टकृदभिधारणद्वयस्यैवान्तिमत्वात्तत्रैव ध्रुवाप्यायनाभावः। आज्यस्थाल्या- ज्यशेषमपि, स्थापयति प्रयोजनसद्भावात् । धुवाशेषादाकूत्यै प्रयुनेऽग्नये स्वाहेति सुवेण चतस्रो दीक्षाहुनीर्नुहोत्यापो देवरिति खुचा पञ्चमीमित्युत्तरत्र शेषविनियोग- बलादेव शेषकरणे सिद्ध इदं वचनं शेषनाशे शेषत्वसिद्धयर्थ धौराद्यैरन्तिम त्रिमि- मन्त्रैधुवायां गृहीत्वाऽनेनैव होमः कर्तव्य इत्यर्थविशेष द्योतयितुम् । भ्रान्त्या कदाचि- स्विष्टकृमिषारणद्वय आप्यायनं कृतं चेत्तदाऽपि तेनौती होमो जुहुयात् । उभय- त्रापि सर्वप्रायश्चित्तहोमोऽनाज्ञातजपादि च ।

पत्नीसंयाजान्ता दीक्षणीया संतिष्ठते भक्षयित्वाऽऽज्येडा विरमन्ति ।

पत्नीसंयाजैरन्तः समाप्तिर्यस्याः सा पत्नीसंयानान्ता । पत्नीसंयानान्ता वीक्षणीया भवतीत्येतायतैव कर्मसंस्थायां सिद्धायामपि संतिष्ठत इति पुनः संस्थाबोधकवचनं पत्नीसयानान्तरप्रतिपत्तिकर्मभिः संस्थायामपि प्रतिपत्तिकर्मभिरपि संस्थापनायेत्येतद- 1 ख. 'त्या तेनै ।