सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत्रम् । सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र- वत्र तथैव प्रसिद्धेः । एकवचनादेक एव दर्भः । साहित्ये तृतीयेयम् । तथा चाय- । मर्यों भवति-दर्भतरुणसहितेन दाकारपात्रेण जुहोतीति । अथवा तरुणशब्दों दाक्र्थकः । तेन हवन दर्भेगेत्यर्थो भवति । अस्मिन्पक्षे न दाकारं पात्रं होमसाधनं किं. तु दृढदर्म एव | अस्मिन्पक्षे होमे नावणमात्रम् । अथवा तरुणशब्द: स्तम्बवाची । तथा च दर्भस्तम्बेन जुहोतीत्यर्थो भवति । अस्मिन्पक्षेऽपि त्रावणमात्रमेव । • यत्र यत्र वषट्कृते यागस्तत्र तत्र तत्स्थान इयमाहुतिः । कम्पने तु नेयमाहुतिः किंतु कम्पनमेव । एतस्येति षष्ठी सशेषनाराशंसमक्षाभिप्रायिका द्रष्टव्या । तेन यत्र सोमस्य सर्वभक्षणमितरेषां तत्रतस्यापि सर्वभक्षणमेव । तत्र सोमलिङ्गानां मन्त्राणामूहः प्रकृतावपि नित्यविकारत्वात् । नैमित्तिकानामनूहो बावृच्ये यदा शिष्टमित्यादिभिः सोमलिङ्गकर्ममक्षणादिविधानात् । परोक्षमिव वा एष सोमो राना यन्न्यग्रोध इति सोमशब्देन बटरसस्य स्तवनाच्च ।

द्विदेवत्यान्भक्षयन्ति ।

प्रकृतप्रयोगाधिकारार्थमिदं बहुवचनग्राह्याः क इत्याकाङ्क्षायामाह-

होताऽध्वर्युः प्रतिप्रस्थाता च ।

प्रतिप्रस्थातुः संपातद्वारकः संबन्ध इति भावः । क्रम प्रदर्शयितुमाह-

एवमनुपूर्वाः।

एवमेवानुपूर्वः क्रमो यत्र त एवमनुपूर्वाः । अयमेव क्रमः सार्वत्रिको भवति नये. तदर्थ एवेति परिभाषैवेयम् । उपवाने भक्षणे चायमेव क्रमः सर्वत्रत्यर्थः ।

अन्योन्यस्मिन्नुपहवमिच्छन्ते ।

अन्योन्यमित्यव्ययत्वेनापेक्षितेऽन्योन्यस्मिन्निति सप्तम्यन्तः प्रयोगश्छान्दसः। अन्यो- न्य परस्परमुपह्वानमिच्छन्त इच्छेयुः कुर्युरित्यर्थः । नानुपहतेन सोमः पात सोमपीथेन ह व्यर्धको भवतीति निषेधादिति श्रुतिहेतुरत्र ज्ञेया। परस्परानुज्ञापनमुपहवस्तमकृत्वा न सोमः पातव्य उपहवरहितेन सोमपोथेन सोमपानेन व्यधु को विगतर्षिशीलो भवतीत्यर्थः । उपहवमन्त्रस्वरूपमाह-

उपह्वयस्वेत्यामन्त्रणः।

मात्र इति शेषः पुंलिङ्गात् । आमन्व्यते संमुखी क्रियते प्रतिभक्षिता येन स मन्त्र आमन्त्रण इत्यर्थः । यस्योपानं तस्य कर्मप्रयुक्तनामग्रहणं कर्तव्यमित्यर्थात् । अन्यथा 5