पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ७स०पटलः] - गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

स भद्रमकर्यो नः सोमं पाययिष्यतीति होता प्रत्याह ।

इस यानुषहौत्रपरम् । भक्षप्रसङ्गादादौ तदुपयोगिनी परिभाषामाह ---

होमाभिषवाभ्यामध्वर्योर्भक्षो वषट्काराच्च वषट्कर्तॄणाꣳ समाख्यानाच्चमसिनाम् ।

अनेन पक्षनिमित्तान्युच्यन्ते । होमामिषवाम्यां समुच्चिताम्यां भक्षोऽध्वर्यो । अध्य- . र्यग्रहणं प्रदर्शनार्थम् । तेन प्रतिप्रस्थात्रादीनामपि होमाभिषवाभ्यां समुचिताभ्यामेव भक्षणम् । ननु होमामिषवाभ्यां च भक्षो नान्यतरेण कर्मणेत्येतावरोव सिद्धेऽत्र वचनं दूरत्वात्तत्परमेव समुच्चितयो)माभिषवयोनिमित्तत्वात्र तु न स्यादिति शङ्का स्यात्त. निवृत्यर्थम् । एवं चमसा येषां सन्ति ते चमसिनस्त[पा] समाख्यानात् , होतृचमसो ब्रह्म- चमस उद्गातृचमसो यजमानचमसः सदस्य चमतः प्रशास्तृचमतो ब्राह्मणाच्छसिचमसः । पोतृचमसो नेष्ट्रचमसोऽच्छाबाकचमस आग्नीध्रचमस इति यत्तत्तच्चमसाख्यानं कपिञ्जल. चमतशब्दवत्तनिमित्तकश्चमसिमक्ष इति । एतदेवास्य ब्रह्माचमसत्वं यच्चम्यतेऽस्मिन्सोमो ब्रह्मणेतिसंवन्धान्तरानपगमात् । यथोक्तं सूत्रान्तरे- का च तच्चमसिता स्यान्न चान्यः संबन्ध इति । वषट्काराच्च वषट्कर्तृणामित्यत्र चकारोऽनुवषट्कारसंग्रहणार्थः । तेनानु- वषट्कारोऽपि भक्षणे पृथनिमित्तम् । अनुवघटकारस्यापि पृथग्भक्षणनिमित्तत्वमाश्वला- यन आह-प्रतिवषट्कारं भक्षस्तूष्णीमुत्तरमिति । होमाभिषवकारध्वर्युप्रतिप्रस्थात्रोर्वषट्कारनिमित्तकभक्षणकर्तृवषट्कर्तृणां समाख्या- निमित्तकभक्षणकर्तृणां चमसिनां च भक्षणे कमविशेषमाह-

वषट्कर्ता पूर्वो भक्षयति ततोऽध्वर्युर्जघन्यश्चमसी।

वषट्कारप्रवक्ता पूर्वः प्रथमो भक्षयति । ततस्तत्कर्तृकमक्षणानन्तरमध्वर्यः अर्थग्रहणं होमाभिषवक पलक्षणम् । जघने मवो जघन्यः, मक्षणे चमसी जघन्यो भवतीत्यर्थः । यत्रै कस्मिन्पात्रे वषट्कारादिनिमित्तसमवायाङ्कहवो मक्षणसमवेतास्तेषु वषट्कर्ता पूर्वः प्रथमं भक्षयति नाध्वर्यवादयः । वषट्कर्तुः प्रथमभक्ष इति श्रुतेः । तस्माद्वषट्कर्ता प्रथमः सर्वभक्षान्मक्षयतीति श्रुतेोतुश्वित्पूर्व हविरद्य माऽशतेति लिशाच्च । निमित्तक्रमादपि वषट्कर्तुरेव प्राथम्यम् । होमाद्वषट्कारस्य पूर्वमादित्वात् । न चामिषवस्य वषट्कारतः पूर्वमावित्वादध्वर्युप्राथम्यं कुतो नास्तीति शङ्कनीयम् । तन्मात्रस्यानिमित्तत्वात् । सर्वान्ते तु समाख्याभक्षस्तस्य समाख्यानुमेयत्वेन पक्षान्तरतो दुर्बलत्वात् । होतृप्रशास्तृब्राह्मणाच्छंसिपोतनेष्ट्रच्छावाकाग्नीधाणां स्वयं निषध यजत इत्यस्मिन्पक्षेऽवयुप्रतिप्रस्थानोर्वषट्कारप्रयुक्तोऽस्ति भक्षः । यजमानस्य वषट्कारनि- मित्तक एव । अतिमह्यहोमे प्रतिप्रस्थाननेधुन्नेतृणां होमाभिषवनिमित्तक एव ।