पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ८७३ ज्ञापनार्थम् । परिप्लवयेति वचनमुदचनव्यावृत्त्यर्थम् । नचात्र द्रोणकलशप्रहणं व्यर्थम् । आधनीयमानस्योत्तानवचनसमकालिकसर्वचमसोपस्तरणाभिधारणोत्तरमपि पूतभृत्यव- नयनकाल आधवनीयस्यास्तीतिज्ञापनार्थत्वेन सार्थक्यात् । ननु होतुश्चमसमनूनयध्व. मितिनहुवचनबोधित चमसाध्वर्युकर्तृकत्वकेवलोन्नेतृकर्तृकत्वयोः परस्परं विरोध इति चेत्सत्यम् । चमसावणां सहायत्वमादायैव बहुवचननोपपत्तेः । चमसोनयनानन्तरं प्रतिप्रस्थाता प्रोसिताप्रोसिताछकलानुपकल्पयति । केवलेन हस्तेनैव प्रोक्षणं पवित्रकर- गावचनात् । तच्चोत्तानेन हस्तेन । उत्तानेन तु हस्तेन कर्तव्यं प्रोक्षणं भवेत् । इति स्मृतेः ।

सर्वचमसानामेष कल्पः।

सर्वेषां चमसानामेष एवोन्नयनकल्प इत्यर्थः ।

प्रस्थितेष्वेवोन्नीयमाने सूक्ते तस्मिन्परिहिते सावित्रेण ग्रहावाददाते ।

प्रस्थान नामोत्तरवेद्यां सादनम् । उक्तं च पौधायनेन-समुनीयोत्तरवेद्यो माद- यतीति । प्रस्थिते वे ]वोग्नीयमाने सूक्त इत्यनन्तरं समापिते सतीति शेषः । अथ या द्वितीयायें सप्तमी । छान्दसत्वात् । तथा चायमों भवति-प्रस्थितेषु सोमेषु सत्खयो- नीयमानं सूक्तं समापयतीत्यर्थः । समापयतीत्यध्याहार्य पदमन्वयसिद्धये । उन्नयन- मारभ्य यावत्सादनं सूक्तस्य यथा समाप्तिर्भवति तथा प्रशास्त्रा सूक्तं वक्तव्यमिति । यस्मिन्परिहित इति वचनं परिधानोत्तरमेव ग्रहयोराधानं न तु परिधानसमकालमित्ये- तदर्थम् । तस्मिन्निति तच्छन्देनोनीयमानं सूक्तं परामृश्यते । सावित्रो देवस्य स्वेति आदानकरणवादाद इत्यन्तो मन्त्रः । महौ शुक्रामन्धिनौ । आददाते इति द्विवचनम् । अध्वर्युपतिप्रस्थातारावितिशेषः । कथमित्याकाक्षायामाह-

शुक्रमध्वर्युर्मन्थिनं प्रतिप्रस्थाता।

स्पष्टम् ।

आददते चमसाꣳश्चमसाध्वर्यवः ।

उत्तरवेद्यां सादितांश्चमसांश्चमसाध्वर्यव भाइदत इत्यर्थः ।

प्रोक्षिताभ्याꣳ शकलाभ्याꣳ शुक्रामन्थिनावपिधत्तोऽपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्म इत्यप्रोक्षिताभ्यामधस्तात्पाꣳसूनपध्वꣳसयतस्ताभ्यां चैवोपयच्छतः।

प्रोक्षितो शकलो द्वावेत । अप्रोक्षितावपि द्वादेव । अन्यथा षे प्रोसितामोलिता- . न, नसूक्तान।