सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'- - ५७० सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- गोमयेनोपलिप्यं पुनस्तं विहृत्य प्रवर्यसभरणं कुर्यात् । अत्र प्रवर्यसंभरणे यजमानस्य दीक्षितत्वाभावाद्धोमो भवत्येव ।

दीक्षिष्यमाणस्याग्निर्यजुर्भिरिति द्वादश संभारयजूꣳषि जुहोति ।

द्वादशभिः समारयजुभिः संभारयजुःसंज्ञकैर्मन्त्रैर्नुहोतीत्यर्थः । अथवा द्वादशसं. भारयजुर्नामकान्होमा होतीत्यर्थः । प्रथमान्ता अग्न्यादयस्तृतीयान्ता यजुरादयश्च देवताः । उत्तमस्य मह्यं श्रद्धाया इति । अथवाऽहंकाराख्यदेवताविशेषस्य वाचकमह. मित्यव्ययात्मकं पदम् । अस्मिन्पक्षेऽहं श्रद्धाया इदमित्येवोद्देशत्यागवाक्यम् । यजुभिः सहितायाग्नय इदं० । स्तोमैः सहिताय सवित्र इदं० इत्येवमेव त्यागवाक्यानि युक्तानि । उत्तमं तु श्रद्धया सहिताय मह्यमिदं० श्रद्धया सहितायाहमिदमिति वेति ज्ञेयम् । दीक्षिष्यमाणवचनमतस्य होमस्य दीक्षार्थत्वमेव न वरणार्थत्वमिति बोधयितुम् । वरणप्रयुक्तत्वाभावादेव सर्वविक्ककिताव्यावृत्तिरित्यांशिक प्रयोजनं प्रागुक्तमेव । अन्यच्च प्रयोजनं यः प्रधानस्य कालः सोऽङ्गाना स देशः स कर्ता सोऽग्निरिति परिभाषया दीक्षाया अपराह्ने क्रियायामतस्याप्यपराह्न एव कर्तव्यतेति । तत्राय प्रकारः-प्रातरेव संकल्पादिकूश्माण्डहोमान्ते कर्मणि जाते सत्यपराह्णप्रतीक्षार्थ विर- म्यापराह्न एव द्वादशसंभारयजुर्चीमादीति । कूश्माण्डहोमोत्तरं प्रवर्यस्यैवाऽऽदौ संभ. रणमिति कल्पे प्रातरेव तदन्ते कर्मणि जाते विरम्यापराह्ने द्वादशसंभारयजु)मादीति । अत्रापराहो द्वेधाविभक्तदिवसस्य द्वितीयो भागस्त्रेधाविभक्तदिवसस्य तृतीयो भागो वा ननु पञ्चधाविभागोऽत्रेत्यत्र मूलं याजमानसूत्रे प्रदर्शयिष्यते । द्वादशवचनमितरमन्त्र. निवृत्त्यर्थमितरहोमनिवृत्त्यर्थं वा । अग्निर्यमिरितिवचनं संभारयषि वाचयति जुहोति चैतमन्त्रैः संभारयषि व्याख्याय निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरतीत्येतेषु संभारयजूंषि कानीत्याकाङ्क्षा निराकर्तुम् । उपस्थितत्वादादित एव द्वादश । अग्नि मिरित्यादीनां सापेक्षत्वात्प्रकाशनाशक्तेस्त इमं यज्ञमवन्त्वित्यनेन नैरपेक्ष्यदर्शनात् । सर्वेषु वाक्येषु तदन्वयो मा भूदित्येतदर्थमेषोऽनुवाक आम्नात इत्याम्नातग्रहणमापस्त- बेन कृतमिति द्रष्टव्यम् । संमारयजु)मार्थ पुनर्विहरणम् । होमान्ते परित्यागः। यत्र मन्त्रगणेन कर्म चोदयेत्प्रतिमन्त्रं तत्र जुहयादिति परिभाषया प्रतिमन्त्रं होमः । जुहो- तिचोदितत्वादेतेषु स्वाहाकारः । आहवनीये जुह्वा हूयन्त इति परिभाषयाऽऽहवनी. योऽधिकरणं जुहूः साधनं च । परिस्तरणं तु यत्र व चाग्नौ परिस्तीर्य होतव्यमिति भारद्वाजीयपरिभाषासूत्रात् । परिमृज्य परिषिञ्चति यथा पुरस्तादित्यग्निकार्यसूत्रोक्तज्ञा- पकात्परिमार्जनपरिषेकौ । दपिहोमान्व्याख्यास्यामो जुहोतीति चोद्यमाने दर्विहोमो यत्र ख. श्रद्रया।