सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

cóc सत्याषाढविरचितं श्रौतसूत्र- [(म०प्रभे- चमु अदन इति धातांवेवमेवोक्तत्याच्च । चमसेषु समाख्यानासंयोगस्य तन्निमित्तत्वा- दित्यत्र समाख्यया भक्षं व्युत्पादयद्भिर्मीमांसकैरप्येवमेवोक्तत्वात् । रुद्रदत्तेनापि एत- देवास्य ब्रह्म चमसत्वं यञ्चम्यते तस्मिन्सोमा ब्रह्मणेत्युक्तत्वात् । रामस्वामिग्रन्थेऽप्येव- ममिधानाच । अपि च भक्षितानां मार्जालीये प्रक्षालनमिति सूत्रमपीह मानम् । क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इत्यधिकरणे कविधानात् । किं च भक्षि- तानामुच्छिष्टानां माजीलीये प्रक्षालनमिति भारद्वाजसूत्र उच्छिष्टानामित्युक्तिरपीह मानम् । अपि च द्रारायणलाट्यायनपूत्रयोयदि वीभत्सेयातां नानाचमसौ स्यातामिति बीभत्सोक्तिरपीह लिङ्गम् । उद्धृत्यपक्षे वीभत्सायां निर्मूलत्वापत्तेः । किं च दशपेयो भवतीत्यस्य वेदभाष्ये दशभिर्ना गैरेकस्मि-पात्रे पातव्यः सोमोऽस्मिन्नित्यादिग्रन्थोऽ- प्यत्रानुकूळः । उच्छिष्टं चम्बोरित्यादिमन्त्राणामूरभाष्येऽप्येवम् । अपि चाशुद्धमिति चेन्न शब्दादित्युत्तरमीमांसासूत्रस्य कल्पतरुप्रन्ये ऽपि स्पष्टमेवेति दिक् ।

वाग्देवी सोमस्य पिबत्विति सार्वत्रिकमेके समामनन्ति ।

सर्वत्र सर्वभक्षणमन्त्रस्थाने भवः सार्वत्रिकः। एतादृशममुं मन्त्र समामनन्त्याचार्याः । सर्वेषा वसुमद्णादीनां स्थाने वाग्देवी सोमस्य पिबत्विति मन्त्रो भवतीति निष्कृष्टोऽर्थः । मक्षहीत्यादीनां सर्वेषामपि भक्षप्तमाख्यया भक्षत्वेन सजातीयत्वात्सजातीयस्य सजातीय निवर्तकं भवत्येव, तथा च भलेहीत्यादीनां सर्वेषामपि निवृत्तिरिति प्राहुः । तन्न । तेषां मन्त्राणां प्रयोजनस्य मिन्नत्वेन तन्निवर्तकत्वासंभवात् ।

हिन्व मे गात्राहरिव इति सोमं भक्षयित्वाऽऽत्मानं प्रत्यभिमृशन्ते ।

सोमं भक्षयित्वेति वचनमेतस्य मन्त्रस्य मा मे वाङ्नाभिमतिगा इति जरणलिङ्गत्वा- स्वयमातभक्षणे वाग्देवीतिमन्त्रेण भक्षणे चाप्यात्मप्रत्यभिमर्शनं भवतीति प्रदर्शयितुम् । अन्यथाऽऽन्याहृतभक्षभक्षणे दीर्घमन्त्रकरणकभक्षपक्षे चैव सर्वभक्षमन्त्रविनियोगतत्त्वा- त्तत्रैवायं प्रत्यभिमर्शः स्यादिति द्रष्टव्यम् । आत्मशब्देन हृदयम् ।

दह्रं विपापं परमेऽश्मभूतं यत्पुंडरीकं पुरमध्यसꣳस्थम् । तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितब्यम् ।।

इत्युपनिषदि परमात्मनः सर्वव्यापित्वेऽपि उपासनोपयोगित्वेन हृदयस्यैवाधिष्ठान- स्वोपवर्णनात् । नाभिर्वाऽत्र मन्त्रलिङ्गात् । आत्मनः साक्षादमिमीसंभवात्प्रतिशब्द आत्मानुसंधानप्तमका हत्पुण्डरीकावरणत्वगभिमर्शनं विदधाति । अतिगा इति . ? मन्नान्तः।

मार्जालीये पात्रं प्रक्षाल्याऽऽयतने सादयति ।

मान लीयशब्दः प्रागेव व्याख्यातः । पात्रं मक्षपात्रं, प्रक्षालन मैंने तु केवलं हस्तेनैव । न मांसधौतस्य देवा अनन्तीत्यग्निहोत्रप्रकरण आपस्तम्बेन निषेधात् । 1