सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७७ १५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । वृक्षपरिभाषोत्तरमुपदेशात् । तेन यस्य कस्यचिद्यज्ञियस्य वृक्षस्य मति । तया चाऽऽपस्तम्बः- द्रोणकलशं प्रकृत्य तस्य वायव्यैर्वृक्षनियम इति । परंतु इयान्वाय. च्यतो द्रोणकलशे मेरः । वायव्येषु वैककतालामे यज्ञियवृक्षोपादानम् । द्रोणकलशे तु अयं नियमो नेतिं द्रष्टव्य मार्तिकत्वमेतेन द्रोणकलशस्य न भवतीति प्रदर्शितं भवति ।

युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्य पश्चादक्षं द्रोणकलशꣳ सदशापवित्रं प्रयुनक्ति ।

द्रोणकलशपरिमाणं तु समाख्यानलाहोणपरिमितधान्येन पूर्णो मवति एतावत्परिमा- तु पकः । द्रोणस्य द्रोणपरिमितधान्यस्य कला मात्राः कणा अस्मिशेरते मान्तीति द्रोणकलशः । तथा च यास्क:-कलशः कला भस्मिन्शेरते मात्रा इति । नतु कम्बु- प्रीवादिमान् । याक्षिकसमाचारात् । परिप्लाया द्रोणकलशाहं गृहातीति वक्ष्यमाण. स्वात् । परि सर्वतः प्लवते तरतीति हि परिवाशमार्थः । कम्युग्रीवादिमति द्रोणकळसे प्रवेशा मावेन तदभावात् । तस्मात्समचतुरश्रो द्रोणकलशो वर्तुलो वेति याक्षिकसमाचारः । उत्तरोत्तरग्रहणादेव पूर्वत्र दक्षिणस्याल्लिामे दक्षिणग्रहणं पूर्वत्र दक्षिणस्योत्तरस्य वेत्यनियमशका व्यावर्तयितुम् । अक्षस्य पश्चादिति पश्चादक्ष, प्रोक्ताम्यां द्वाम्या दशापवित्राभ्यां सहित दशापवित्रद्वयं द्रोणकलशमध्ये निधाय तसहितं प्रयुनक्तीत्यर्थः । न्यक्त्वावचनादुत्तानस्यैव प्रयोगः । एवमाधवनीयप्तमनेकधनानामपि । उत्तरस्याऽs. दिना पूर्वस्यान्तं विधाविति परिभाषयैव मन्त्रान्तका कृत्स्नपाठो मन्त्रान्तेन कर्म मनिपातयेदितिपरिभाषाप्रवृत्त्यमा ज्ञापयति । तेन युनग्मीतिक्रियापदोचारणकाळ एवं प्रयोग इति सिद्धं भवति । एवमनिमेष्वपि त्रिषु मन्त्रेषु ज्ञेयम् ।

युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य नीड आधवनीयम् ।

उत्तरग्रहणं रक्षिणनिवृत्त्यर्थम् । नी हे शकटोपस्थः । आधूतो निष्पीन्य गालित एक सोमोऽननीयते यस्मिनिस्पाधवनीयस्सम् | पृषोदरादित्वात्साधुत्वम् ।

युनज्मि वाचꣳ सह सूर्येण त इति तस्यैव प्रधुरे पूतभृतम् ।

तस्पतिवचनं नौपामार्थम् । अन्यथोत्तरहविर्धानस्यानुवृत्त्यैव प्राप्तिसंभवेन तत्प. रामर्शस्य निरर्थकत्वापतेः । पवमानमहा-कलशानिति सूत्र माधवनीयप्तभृतोरपि कळ- वायोरेन वक्ष्यमाणत्नेन कलशाववैतयोः । तेन मृन्मयत्वं कलशाकारता च भवति । स्पष्टं कठसूत्रे-आधवनीयप्तभृतौ च कुम्भौ मापिधानाविति । कुम्मी कलशौं कलश- स्थाल्योराकारकृतः कश्चन भेदः । विस्तृतत्रुधनमुखा ह्रस्वाकारा स्थाली । अविस्तृतबुघ्नो विस्तृतमुखो दीर्घाकारः कलश इति द्रष्टव्यम् । प्रकृष्टा विस्तीर्णा यत्र पतभृत्स्था- पितो न पतति एतादृशी धूस्मिन् प्रधुरो देशस्तस्मिन्पूतमृतं प्रयुनक्तीत्यर्थः । भक्पूरब्धःपथामानक्ष इति अकारः समासान्तः । अ अनक्ष इति पदच्छेदादयं लभ्यते।