सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ७६९ पर्यवसानम् । केवलाच्छादनेऽपि यद्यप्युपवेशनं संभवति तथाऽपि तस्य कर्मण्ययो- ग्यत्वान्मण्डपशब्देन न ग्रहणम् । यद्यपि आग्नीधं प्रविश्य हविर्धान प्रविश्य सदः प्रविश्येत्यत्र प्रवेशकरणत्वमवकाशस्यापि तथाऽपि अवकाश उपवेशनासंभवान्न मण्डपशब्देन ग्रहणम् । न च योगधारणवलेन तदपि संभवतीति वाच्यम् । तथा सत्यपि तस्य कर्मानुपयुक्तत्वेन प्रकृते ग्रहणायोगात् । एकदेशाभिमर्शन सर्वोऽपि मण्डपोऽभिमृष्टो भवति । अभिमर्शमन्त्रपाठयोः समान कालिकता सर्वत्र । वानसाता- वित्यन्तो मन्नः।

इदं विष्णुर्विचक्रम इति हविर्धाने ।

अभिमृशतीत्यनुवर्तते । द्रव्यपृथक्त्वान्मन्त्रावृत्तिः । पारमुर इत्यन्तो मन्त्रः । हविर्धानमिति पाठे मण्डपस्यैकत्वात्सकृदेव मन्त्रः ।

अग्न आयूꣳषि पवस इति स्रुचः ।

सप्तिा नवां मध्ये यावतीनां स्तुचा सकृत्प्रयत्नेनाभिमर्शः संभवति तावतीषु सकृन्मन्त्रः । अन्यथा मन्त्रावृत्तिः । नुच इति द्रव्यैकत्वात्सकृन्मन्त्रो वा क्रमेणाभि- मर्शः । प्रचरण्या अप्यभिमर्शः । गृहीताज्यत्वात् । वसाहोमहवन्या नाभिमर्शः । भगृहीताज्यत्वात् । दुच्छुनामित्यन्तो मन्त्रः ।

आवापो भूयेति वायव्यानि ।

सर्वेषां वायव्यानां मध्ये यावतां वायव्यानां सकृत्प्रयत्नेनाभिमर्शः संभवति तावत्सु सकृदेव मन्त्रः । अन्यथा मन्त्रावृत्तिः । वायव्यानीति द्रव्यैकत्वात्सकृन्मन्त्रो वा क्रमे- गामिमर्शः । वायव्यानि ऊर्ध्वपात्राणि । वायव्यानीति वचनान्न चमसानभिमृशति । यद्वायव्यं वा चमसं वेतिपृथरवचनाल्लिङ्गात् । स्थालीस्त्वमिमृशत्येव । काश्चतस्रः स्थालोळयन्याः सोमग्रहणीरिति लिङ्गात् । पूर्वपेयमिति मन्त्रान्तः ।

उत्तिष्ठन्नोजसा सहेति सदः ।

अत्रापि पूर्ववभूमिपर एव सदाशब्दः । हविर्धानमिति पाठे हविधानशब्दोऽपि भूमिपर एव । सुतमिति मन्त्रान्तः ।

खरे पात्राणि प्रयुनक्ति।

पूर्वकृते खरे । पात्राणि वक्ष्यमाणानि । प्रक्षाल्येति सूत्रान्तरे । भपूर्ववाद्वचनामा- बाच न न्यग्बिलत्वम् । सामान्यप्रतिज्ञेयम् ।

अग्निर्देवता गायत्री छन्द इत्येतैर्यथारूपं कस्त्वा युनक्ति स त्वा युनक्त्वित्यवशिष्टानि ।

यथारूपं यथालिङ्गम् । उपांश्वन्तर्यामयोरेन्द्रवायवमैत्रावरुणाश्विनानां शुक्रामन्थि.