पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५५ (म०पटलः] गोपीनाथमट्टकृतज्योत्नाव्याख्यासमेतम् । न्तीनां व्यावृत्तिः कृता तद्वयदि तं न विन्देयुरित्यस्मिन्कल्पेऽप्येतत्सूचयितुमेव यत्राऽऽपः स्युरिति सामान्यनिर्देशः कृत इति । अथ वाऽवहन्त्यो वहन्त्यो वा यत्र संनिहिता आपः स्युस्तत्र गत्वा ग्रहणं कर्तव्यं न तु वहन्तीनामर्थे दूरं गन्तव्यमिति सूचयितुम् । बसतीवरीग्रहणकाले सूर्याभिनिम्रोचने वहन्तीनां परित्यागं कृत्वा बहुयानिगृहाधि- करणककुम्म्या ग्रहणविधिवलादृष्टार्थताऽपि ज्ञायते रात्रौ भयशङ्कायाः सत्त्वात्तदर्थ संनिधान एव ग्रहणमिति । एतेनेदमपि ज्ञायते वहन्तीनां ग्रहणार्थनर्धमार्ग गतस्तत्र । केनचित्प्रतिबन्धेन विलम्बो जातो दिवसस्त्वस्तात्पूर्व ग्रहणं कर्तुमपर्याप्तस्तदा झटिति ग्राममागत्य साङ्गाग्निहोत्रहोमपर्यातं कालं तत्र स्थित्वाऽग्निं हिरण्यं चाऽऽदाय वह- त्यो वाऽवहन्त्यो वा यत्राऽऽपः संनिहिताः स्युस्तं देशं प्रति अग्निहिरण्यादानं यत्र कृतं ततः परावृत्य गच्छेदिति । यदि तु अग्निहिरण्ये गृहीत्वैव गच्छेच्चेत्तदा तस्माद्दे- शादेव परावृत्य यत्राऽऽपः स्युस्तं देशं प्रति गच्छेदिति । एतदभिप्रायेणैव परेयादिति परेत्युपसर्गः परावर्तनार्थक उपात्तः सूत्रकृता । तज्ज्योतिरुपरिष्टाद्धारयन् । तदित्यस्य सत्रेत्यर्थः । सुपां सुलुगित्यनेन सप्तम्या लुक् । ज्योतिःशब्दग्रहणादत्र कंचन विशेष सूचयति यथा स्वच्छमनवच्छिन्नं द्रष्टुं शक्यते तथा प्रकाशः कर्तव्य इति । तथा चेदम. वगतं भवति आनीतो यो लौकिकोऽग्निस्तस्मिनुल्कां प्रज्वलयित्वा(ल्य) तत्प्रकाशे वस- तोवरग्रहणं कर्तव्यमिति । उपरिष्टाद्धारयन् , उपरिष्टात्कुम्भस्य कुम्म्या वा धारयन् । यथा वसतीवरीमहणानुकूलं भवति तथेत्यर्थः । उस्कामुपरिष्टाद्धारयमाणो गृह्णीयादि- त्यापस्तम्बः । धारयन्नित्यनेन शत्रा समानकालता बोध्यते । सामानाधिकरण्यादेव समानकर्तृकता । हिरण्यं कुम्भे कुम्भ्यां वाऽन्तर्धायावधायेत्यर्थः । हिरण्यं वाऽवधाये. त्येवाऽऽपस्तम्बः । श्रुतावपि ज्योतिष्या वा गृह्णीयाद्धिरण्यं वाऽवधाय सशुक्राणामेव गृह्णातीति विकल्प उक्तः। शुक्रं तेजः । सूत्रकारमते तु ज्योतिर्हिरण्ययोः समुच्चय एव। वाकारः समुच्चयार्थक इत्याशयः । अत्र श्रुतिः शाखान्तर उन्नया । वरे दत्ते यज. मानेन वरे स्वस्मै दत्तेऽध्वर्युगातीत्यर्थः । एतदन्तं नैमित्तिकम् ।

अग्नेर्वोऽपन्नगृहस्य सदसि सादया. मीत्यपरेण शालामुखीयमुपसादयति ।

स्पष्टोऽर्थः । धत्तेत्यन्तो मत्रः । एतदन्तो वसतीवरीग्रहणविधिः । तत्र त्रेधाविमक्त- दिवसद्वितीयभागांशे वपायागोत्तरं बह्ववकाशश्चेत्तदा प्रकारद्वयम् । तत्र पायागोत्तरं पशुपुरोडाशतन्त्रमारभ्य तृतीये मागे प्राप्ते कृतान्ताद्विरम्य वसतीवरीगृहीत्वा कृतान्ता. स्कर्म प्रतिपयत इत्येकः । वपायागोत्तरं तृतीयमागप्रतीक्षार्थ विरम्य तस्मिन्प्राप्ते वस- तीवरीगृहीत्वैव पशुपुरोडाशतन्त्रमारमत इत्यपरः । यदि तु वपायाग एव विलम्बवशा- तृतीयमागे(गो) गतस्तदा वपायागोत्तरमादौ वसतीवरीरेव गृहीत्वा पशुपुरोडाशतन्त्रा- 3