सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अ: पटकः] गोपीनाथमदृकृतज्योत्साव्याख्यासमेतेम् । ७३७ य॑न्ते; माहवनीयत्वेऽपि शालामुखीयं गार्हपत्यकर्मम्प एवान्ववस्यन्ति नवाहवनीय- कर्मभ्योऽपीति । गाईपत्यकर्माणि सौमिकान्यत्र विवक्षितानि नतु पाशुकानि । तेषु तु एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गार्हपत्य इत्येतत्सूत्रादेव सिद्धः । नन्वेय- मेषोऽत्राऽऽवनीयो यतः प्रणीयते स. गार्हपत्य इत्येतस्मादेव सूत्रादपि सिध्यति किमर्थमिदं वचन मिति चेत्सत्यम् । एषोऽत्राऽऽहवनीय इत्यत्रत्येनात्रेति शब्देन पाशु. ककर्मस्वेवैतस्य प्राप्तत्वेन तदितरत्राप्राप्तौ तत्रापि प्राप्त्यर्थमेतत्सूत्रप्रणयनस्याऽऽवश्यक- स्वात् । सौमिकेषु अभिप्रणयनोत्तरं द्विविधगार्हपत्योपस्थितौ कस्मिन्गार्हपत्यकर्म कर्त: व्यमित्याशङ्कायां शालामुखीयस्यैव गार्हपत्यकर्भसंबन्धित्वं नियम्यते । गार्हपत्यसंव- न्यौनि सौमिकानि कर्माणि अग्नीषोमप्रणयनमारम्यैव प्रवर्तन्तेऽतोऽत्र परिभाषाकरणम्। नन्वेवं तत्र तत्र गाईपत्यशब्द एव प्रयोक्तव्यः, परिभाषयैव शालामुखीयस्य प्राप्तिम- विष्यति, शालामुखीयस्य गार्हपत्यत्वमौत्तरवेदिकस्याऽऽहवनीयत्वं व्यावर्तयितुमेवोद. यनीयायां प्रासंशग्रहणम् । एवं चोदयनीयाविषयकातिप्रसनवारणे सिद्धे किमर्थं क्वचिवचिच्छालामुखीयपदोपादानं कियत इति चेन्न । सर्वेषामितउत्तरमाविकर्मणां सौमिकत्वाविशेषेऽपि कर्मविशेषपरत्वमेव परिभाषाया ज्ञापयितुं तदावश्यकत्वेन सत्र तत्र शालामुखीयपदोपादानस्य प्रयोजनसत्त्वात् । तपा हि शालामुखीयं गार्हपत्यकर्म- भ्योऽन्ववस्यन्ति तस्मिन्गाई पत्यकर्माणि क्रियन्त इति परिभाषया यागसंबद्धान्येव कर्माणि गृह्यन्ते । अत एव सवनीयपुरोडाशप्रयुक्तपात्रासादनादीनां सवनीयपुरोडाश- यागसंबद्धत्वादेव शालामुखीयप्राप्तेर्न कस्याप्योः अषणम् । मत एवोदयनीयायां प्राविंशग्रहणम् । वागव्यतिरिक्तषु यागासंबद्धेषु वैतर्ननहोमादिषु गाईपत्ये जुहोती. स्येवमुच्यमाने गाईपत्ये जुहोतीति तत्र तत्र प्रत्यक्षश्रुतौ श्रूयमाणत्वेन प्राकृतगार्हपत्य. परतैव स्यात्ता वारयितुं शालामुखीयवचनमावश्यकं, प्रत्यक्षशालामुखीयपदश्रवणस्य यत्रामावः सवनीययागप्रयुक्तपात्रप्रयोगनिर्वापादौ तत्र परिभाषायाश्चरितार्थता । याग- भिन्नेषु यागासंबद्धेषु वैसर्जनादिषु शालामुखीयग्रहणं प्राग्वरशे गार्हपत्यात्पत्नीत्यत्र प्रामहित एव गार्हपत्य इति परिसंख्यातुम् । नन्विदमेषोऽत्राऽऽहवनीयो यतः प्रणी. यते स गार्हपत्य इत्यनेनैव सिध्यतीति चेन्न । एतत्सूत्रस्य तत्रस्थेना।तिशब्देन पाशु- कमात्रपरतायाः प्रदर्शनेन सबनीयपुरोडाशयागस्य पांशुकत्वाभावेन' पारेमाषाया अप्रीप्तौ तत्प्रापणार्थ शालामुखीयं गार्हपत्यकाम्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति परिभाषाया अवश्यमपेक्षितत्वात् । नवं वैसर्जनहोमादिष्वपि परिभाष- थैव सिध्यतीति वाच्यम् । तथा सति तत्र तत्र शालामुखीयग्रहणस्य निर्हेतुकत्वापत्तेः। नच वैसर्जनहोमादिष्वपि कस्याप्यग्नेः श्रवणं माऽस्त्विति वाच्यम् । माहवनीये जहा हूयन्त इति परिभाषयाऽऽहवनीयप्राप्त्यापत्तेः । शालामुखीय गार्हपत्यकर्मभ्योऽन्व- स्यन्ति तस्मिन्गाहपत्यकाणि क्रियन्त इति सूत्राच्छालामुखीये गार्हपत्यकर्मप्रवृत्तिर-