सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ७३२ सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्र-- मेतत्सूत्रप्रणयनस्याऽऽवश्यकत्वेन समानविषयत्वाभावेन बाध्यबाधकभावस्यैवासंभवात् । एषोऽत्राऽऽहवनीयो यतः प्रणीयते स गाई पत्य इत्येतस्य सूत्रस्य विषयः पाशुकं कर्म शालामुखीय गाई पत्यकर्मभ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इत्येतस्य सूत्रस्य विषयः सौमिकं कर्म । एवं प विषयभेदाहाध्यबाधकभावो नात्रास्ति । अथवा पशुसूत्रविषयस्य हेतुपरताप्रदर्शनार्थ शालामुखीयं गार्हपत्यकर्म- भ्योऽन्ववस्यन्ति तस्मिन्गार्हपत्यकर्माणि क्रियन्त इति सूत्रं यतः शालामुखीयं गार्हपत्य- कर्मार्थमन्ववस्यन्ति विनियोजयन्ति श्रुतयः पाशुके कर्मणि अतस्तदग्निसाध्यत्वात्तस्मि- मेव सौमिकान्यपि गार्हपत्यकर्माणि क्रियन्त इति । इध्म इति सिद्धवनिर्देशादिध्मा- हरणस्यात्र कर्तव्यता गम्यते । भातिथ्यावहिःसनहनं तु इध्माहरणोत्तरं कर्तव्यं नतु प्रकृतिप्राप्तस्थाने स्यपा तद्वाधात् । अथवाऽऽदानसमय एवं बर्हिःसनहनम् । अथवा परिधीनित्यनन्तरमपिशब्दोऽध्याहार्यः । तेन बहिःसनहनमपि प्राकृतस्थान एव सिध्यति । सथा चाऽऽपस्तम्बः-भातिथ्यावहिस्तूष्णीमुपसंनयति तांश्च परिधीपाशुक इध्म इति । मत्रापि तूष्णीमुपसनह्यतीत्यनुवर्तते । द्वादशाध्याये प्रथमपादे नैमिनिरपि नहनहरणे तथेति चेत्, नान्यार्थत्वादिति सूत्राम्यामाह । संनहने च हरणं चानयोः समाहारः सनहनहरणं सस्मिन्सनहनहरणे । देशपृथक्वान्मन्त्रोऽम्यावर्तत इति पूर्वसूत्रोक्ता मन्त्रावृत्तिस्तथाशब्देनानुकृष्यते । नेत्यनेनाऽऽवृत्तिः खण्यते । विहारदेशपापणं मुख्य सनहनहरणयोः कार्य तदतिरिक्त कार्थमन्यशब्देनोच्यते । तच वेदिप्रापणात्मकं तद. वादित्यर्थः । यदि वेदिप्रापणार्थताऽपि स्यात्तदा प्रकृताव गाई पत्यावनीयं प्रति नीयमानेऽपि मन्त्रः प्रयुक्तः स्यात् । एवं संनहनेऽपि देवाग्रन्थिशथिस्ये प्रसक्ते पुनस्तूष्णी क्रियमाणे । नच विहारदेशप्रापणातवैतयोरित्यत्र किं विनिगमकमिति वाच्यम् । प्रथमोपस्थितेरेव विनिगमकत्वालाघवात् । तदयं निर्गलितोऽर्थो नैमिनि- सूत्रस्य देशपृथक्वान्मन्त्रोऽप्यावर्तत इतिसूत्रोक्तरीत्याऽत्रापि मन्त्रावृत्ती प्राप्तायां लूनस्य बर्हिषो विहारदेशमापणार्थ यत्सनहर्न हरणं च तदर्थों हि संनहनहरणौ मन्त्री प्रकृते तपावामावान मन्त्राविति । अत एव संमरणमन्त्रोऽपि न तेन परिधीनां सामिः धेयर्थकाष्ठसंभरणोत्तरं तूष्णीं पृथगेव संभरणम् । अतः संभरगमन्त्रे त्रीनरीवी निति लुप्यते । विशतिधेत्यूहः संचरा इति संनामश्च । उपवेषधृष्टिशब्दविवक्षया संचरा- नित्येव वा । उपनियतीत्यत्रोपशब्दादिध्मसमिधाभुपर्येत्र परिधीनां संननम् । अत्र तूष्णी लक्षशाखां छित्ताऽऽनयन्ति । केचित्तु बहि धर्मेणैव तूष्णीमानयान्त ।

अग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थं पाशुकानि पात्राणि प्रयुनक्ति ।

अत्रानयो ये साक्षादन्वाहितास्त एव । ते चौत्तरवेदिकशालामुखी प्रदक्षिणाग्नयः । सम्यावप्तथ्यपक्षे तावपि । आनीवस्य सासाइन्वाधानाभावान्न परिस्तरणम् । अग्नीप-