पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ७३० सत्यापाढविरचितं श्रौतसूत्र- [ सप्तमप्र- ताम्य इति बहुवचनं संगच्छते । ननु इन्द्रस्य वैमृधाख्यगुणविशिष्टस्यापोन्द्रामिन्नत्वेने- न्द्रशब्देनैव तहहणं तथा च बहुत्वस्य प्रकृतावसंभवेनासंगत्यापत्तिरिति चेन्न । इन्द्रम- हेन्द्रवदत्रापि भेदस्य सत्वेन बहुत्वस्य संभवेनासंगतेरभावात् । इन्द्रस्य सोमस्य च प्रकृतिगतत्वमांशिकं तदेव प्रकृतिदेवताभ्य इत्यत्र गृह्यते । यद्यप्योरपि प्रकृतिगत. स्वमस्ति तथाऽपि नाऽऽग्नेयस्यान्यत्र प्रकृतिदेवताभ्य इत्यत्र ग्रहणम् । यथा सौम्यश्व- रैन्द्रः पुरोडाश इत्युभयोरेव ग्रहणात्सोमदेवत्यपशुविषय आग्नेयधर्माणांमप्राप्तेः साधि- तत्वेन सामान्यत्वात्तदपेक्षयांऽशभूतस्येन्द्रस्य विशेषत्वेनैन्द्राग्नधर्माणां प्रापणे प्रबलत्वेन यक्षरनामक वेन चाऽऽश्वमेधिकसोमेन्द्रपशूनामैन्द्रामधर्मा एव, ये कत्वन्तरे विहिता ऐन्द्राः पशवस्ते घोडशिसंस्थासंबन्धिसवनीयस्यैन्द्रस्य पशोविकाराः, ये सरस्वदेवताका- स्त आग्नेयपशोरव विकाराः । प्रातिपादिकप्ताम्यात्सरस्वती विकारत्वं केचिदिच्छन्ति । ये त्वन्ये सरस्वती देवत्या ये च स्त्रोदेवतास्ते स्त्रीदेवतासाम्ये नातिरात्रसंस्थासंबन्धिसवनी. यायाः सरस्वत्या मेण्या एव विकारा मैत्रावरुणीसौर्याद्यनूवन्ध्या विना । षश्च भव- तीतिवक्ष्यमाणानुबन्ध्याप्रकरणस्थात्सूत्रालिलेन साजात्यमत्र न भवतीति ज्ञापितत्वात् । अन्यत्र तु मवत्येवेति व्यवस्था । तस्मादोषोमीयादयः पश्चापि सोमतन्त्रान्तर्गतानां व्यवस्थिताः प्रकृतयः सोमत अवहिर्भूतानां तु निरूढ ऐन्द्राग्न इति पश्चापि पशवः प्रत्यक्षधर्माणो हौत्रेण निरूढस्य विकृतयः । इतर आध्वर्यवेण वैशेषिकेण च हौत्रम- तिदेशासमानमेव प्राप्तमपि शास्त्रान्तरादैन्द्रे सारस्वत्यां च वपापुरोडाशाजयागविषय- कमैत्रावरुणब्यापारप्रतिबन्धेनैव व्यवस्थापितम् । औपवतध्ये क्रियमाणानां सुत्यायां क्रियमाणानां चापि पशवः प्रकृतिभूता यथायथमिति मतमैच्छिकविकल्लाभिप्राय द्रष्ट- व्यमित्यस्तु प्रासङ्गिको विचारः । इशानी प्रकृतमुच्यते तस्य निरूढपशुवन्धेन कल्पो व्याख्यात इति सूत्रं हौत्रेण सर्वपशुप्रकृतित्व निरूढस्यैवेत्यभिप्रायेणैव भगवताऽऽचा- र्येण प्रणीतमिति द्रष्टव्यम् ।

षड्ढोता पश्विष्टिश्चाङ्गभूते न विद्येते ।

येऽन्तस्तन्त्रवर्तिनोऽङ्गपशवः समानदेशकालाग्मयश्चाग्नीपोमीयाद्यनुबन्ध्यान्ता अङ्गि नश्च तेषु षड्ढोता न भवति आरम्भार्थत्वात् । प्रधानारम्भेणैव तदारम्भसिद्धेश्च । तथा पश्विष्टिरपि देवतारूपाम्यारम्भस्य दीक्षणीययैव सिद्धेनं भवति । ये तु बहिस्तन्त्रवा तिनो भिन्नदेशकालाग्यश्च वायव्यपशुपञ्चपशुसौत्रामणीपश्चादयश्च तेषां सत्यपि कथं. चिदङ्गभावे मवत एव पड्ढोतृपश्चिष्टी । ननु षड्ढोता पश्चिष्टिश्च न विद्यते इत्येतारदेव वक्तव्य प्रकरणादेवतस्याभूतस्य पशाला भात् । अतोऽभूत इत्येतस्य शब्दस्योपा- दानं नैव कर्तव्यमिति चेत्सत्यम् । अङ्गभूत इत्येतस्य हेतुपरत्व प्रदर्शनार्थमुपादानस्या55. १० तेषु न।