पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२६ सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तमप्रश्ने- रालं तत उत्तरतोऽच्छावाकधिष्ण्यं सान्तरालमित्येवं क्रम इत्यर्थ बोधयितुम् । एतेन प्रागायतत्वं साक्षाद्धोतृधिष्ण्यस्यैव सर्वेषां सामीप्पार्थ समन्तभावश्चेति निरस्तं भवति । इतरशब्दवाच्यानाह-

तुथोऽसीति ब्राह्मणाच्छꣳसिन उशिगसीति पोतुरन्धारिरसीति नेष्टुरवस्युरसीत्यच्छावाकस्य प्रतिकृष्टतरम् ।

ब्राह्मणाच्छंसिन उपसंख्यानमिति पञ्चम्या अलुक् । ब्राह्मणे विहितानि शस्त्राण्युप- चाराद्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी, ऋत्विविशेषः । द्वितीयार्थे पञ्चम्युपसं- ख्यानादेव । ब्रह्मशब्दोऽपि स्थलविशेषे ब्राह्मणाच्छंसिनि ।ब्रह्मन्यजोतेप्रस्थितयाज्याप्रैष- दर्शनात् । पाति यजमानमाशासनद्वारेति पोता, ऋत्विग्विशेषः । अस्ति चास्मिन्नर्थे लिङ्गं मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जन इति पोतृप्रस्थि. तयाज्यायाम् । नप्तृनेष्टहोतृपोतृभ्रातृजामातृपितृहित इत्युणादिसूत्रेण निपातनात्साधुः । पन्नेननीग्रहणप्रदेशं प्रति पत्नी नयतीति नेष्टा । अयमप्यनन्तरोदाहृतेनोणादिसूत्रेण निपातनात्साधुः । अच्छशब्देनाच्छशब्दादिसूक्तं लक्ष्यतेऽच्छा वो अग्निमवत इति । तत् , आ, अत्यन्तं समीचीनं वक्तीत्यच्छावाक ऋत्विविशेषस्तस्य धिष्णियं प्रतिकृष्ट. तरमधिकतरमितरधिष्णियतो भवतीत्यर्थः । तत्राऽऽधिक्यप्रमाणस्यानुपदेशाददृष्टार्थ किंचिदधिकं कर्तव्यम् । दृष्टासंभवाददृष्टार्थताऽत्र । वासिष्ठवाधूलौ तु आधिक्य प्रमा. तु णनियममाहतुः-सर्वेभ्यो धिष्णियेभ्योऽधिकं चतुरङ्गुलैरच्छावाकस्य धिष्णियं भव. तीति । विश्ववेदाः कविर्वम्मारिर्दुवस्यानिति क्रमेणान्ताः ।

शुन्ध्यूरसीति मार्जालीयं बहिःसदसं दक्षिणार्धे वेदेः सममाग्नीध्रीयेण यथा दक्षिणेनान्तर्वेदि संचरो भवति ।

मृज्यन्ते शुद्धानि क्रियन्ते पात्राणि यत्र तन्मा लीयम् । मृजेरालीयच् , इत्युणा- दिसूत्रेण मृष शुद्धावित्यस्माद्धातोरालीयच्प्रत्ययः । बहिःस दस सदसो बहिहि:- सदसम् । अव्ययीभावप्तमासोऽयम् । शरदादित्वात्समासान्तष्टच्प्रत्ययः । अन्तः- सदसमितरानित्यस्यानुवृत्त्या मार्जालीयस्यापि सदस्येव समावेशः स्यात्तं वारयितुं बहिःसदसमिति वचनम् । दक्षिणार्धे वेदेरिति वचनं बहिःसदसत्वेऽपि वेदेरुत्तरार्ध च्यावर्तयितुम् । सममाग्नीध्रीयेणेत्यनेन पूर्वसूत्रोपात्तायाः प्रतिकृष्टतरताया व्यावृत्त्य- थम् । नन्वेवं लाघवाद्धोतृधिष्णियस्य मुख्यत्वाच्च तस्यैवात्र प्रतिकृष्टतरत्वव्यावृत्त्यर्थं ग्रहणं कर्तव्यं समं होत्रीयेणेति किमर्थममुख्यगुरुभूताग्नीधीयग्रहणमिति चेन्न । आग्नी. धीयमानीलीययोरुदक्सूत्रानवेन साम्यवसिध्द्यर्थ तदुपादानाद्धोतृधिष्ण्ये तदसंभवात् । आग्नीधीयस्य महावेधु तरप्रान्तपासूत्रमध्यमारंभ्याऽऽनवेन महावेदिदक्षिणप्रान्तप्राक्मू- त्रमध्यपर्यन्तमुदक्सूत्रं दत्त्वा तत्र मान लीयं कार्यमित्यर्थः फलितो भवति । सममानी- .