सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न । १० पटलः ] गोपीनाथमदृकृतज्योत्सान्याख्यासमेतम् । अन्धमध्ये अन्यान्ते च मङ्गलं विघ्नशङ्कया । ग्रन्थादौ मङ्गलं यज्ञं व्याख्यास्याम इति यज्ञशब्दोपादानेन कृतम् । यज्ञो हि विष्णुरेव भवति यज्ञो वै विष्णुरिति श्रुतेः। कर्मण्यपि मङ्गलकरणं बौधायनेनोक्तं यज्ञाधिदैवतं विष्णु ध्यायतीत्यनेन । मङ्गलस्य समाप्तिसाधनत्वं तु मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वादिति तार्किकोद्धोषितपरिशेषानुमानात् । तत्र विघ्नध्वंप्त एव मङ्गलस्य फलमिति नवीनास्ता- किंकाः । विघ्नध्वंतपूर्वकसमाप्तिः फलमिति प्राचीनास्तार्किका इत्यास्तामप्रस्तुतम् । वाशब्दप्रदर्शितविकल्पस्थले तुल्यविकल्पमात्रप्रदर्शनमेव नतु मङ्गलार्थत्वमपीति द्रष्ट- व्यम् । नन्वेक इत्येकेषामिनि वा यत्र पठ्यते तत्र तत्पक्षस्य हेयत्वप्रदर्शनार्थत्वमेवा- स्त्विति चेन्न । तत्पक्षानुक्त्यैव निर्वाहे तत्पक्षप्रदर्शनस्य निरर्थकत्वापत्तेः केषुचिरस्थ- लेषु मङ्गलार्थकत्वप्रदर्शनपूर्वकविकल्पदर्शन केषुचिकेवलविकल्पप्रदर्शनमेवेत्यत्र निया- मकं खतन्त्रेच्छस्य मुनेनियोगपर्यनुयोगानहत्वादिति न्याय एवं नान्यदिति ज्ञेयम् ।

अमावास्यायां यजनीयेऽहनि दीक्षते पौर्णमास्यां यजनीयेऽहनि सुत्यमहः ।

अमावास्यायां पौर्णमास्यामित्युभयत्रापि समीपसप्तमी । अमावास्यासमीपवर्ति यद्य- मनीयमहस्तस्मिन्दीक्षते । पौर्णमासीसमीपवर्ति यद्यननीयमहस्तस्मिन्नहनि सुत्यं सुत्या- पदहः । भवतीति शेषः । अर्शआदित्वामित्वर्षीयाच्प्रत्ययः । सूत्यमित्यत्र सुत्याशब्देन सोमकण्डनवत्कर्मोच्यते तद्वदित्यर्थः । यद्यप्यमावास्याशब्दः सूर्याचन्द्रमसोः परमसनि. कनिमित्तः पौर्णमासीशब्दश्च परमविप्रकर्षनिमित्तोऽतः संनिकर्षों विप्रकर्षश्च संधिमा ध्यमाणमात्रं तच्च पञ्चदशीप्रतिपदोः समानमेवेति तयोर्द्वयोरप्यमावास्यापौर्णमासीश- ब्दाभ्यां ग्रहणं सिद्धं तथाऽप्यत्रामावास्यासमीपवतियजनीयेऽहनि दीक्षायां पौर्णनासी- समीपवतियजनीयेऽहन्येव सुत्या न तु पर्वण्यपीतिप्रदर्शनार्थम् । यजनीयदीक्षासुत्या- विषय एव पौर्णमासीसमीपवर्तियजनीयेऽहनि दीक्षा, अमावास्यासमीपवतियजनीयेs: हनि मुत्येत्येतादृशवपरीत्यव्यावृत्त्यर्थं च । ननु संनिकनिमित्तप्रयुक्त पौर्णमाप्तीवं विप्रकर्षनिमित्तप्रयुक्तममावास्यात्वं पञ्चदशीवत्प्रतिपद्यपि समानमेवेति प्रतिपदोऽपि पर्णिमास्यमावास्याशब्दाभ्यां यथायथं ग्रहणमिति उक्तं तत्कथामिति चेत् । उच्यते- पौर्णमास्यां पौर्णमास्या यनतेऽमावास्यायाममावास्ययेति वाक्याभ्यां विहितो यागः संधौ यतेतिश्रुत्या पर्वप्रतिपत्संधी प्राप्तः । तत्र च यागाधिकरणीभूतपर्वप्रतिपरसंधि- रूपस्य कालस्य दुर्लक्ष्यत्वेन तस्यायोग्यत्वेन संधिममितो यजेतेति श्रुतिः संधिपार्श्वद्वय- गतं कंचित्स्थूलं काळं लक्षयति । तस्याप्ययोग्यत्वालक्षान्ता उपवस्तव्याः पक्षादयोऽ- भियष्टच्या इति गोभिलेन पञ्चदशीवत्प्रतिपदोऽपि यागाधिकरणत्वेन स्वीकारात्तत्रापि पर्वत्वमवश्यं स्वीकार्यम् । अन्यथा पौर्णमास्यां पर्णिमास्या यजतेऽमावास्यायाममावा- स्थयेत्ति वाक्याभ्यां पौर्णमास्यमावास्ययोर्याग उक्तः स प्रतिपदि विरुध्येत । अतोऽनु.