सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ७०६ सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्र- मृशति । अपरयोरुत्तरो वायवीस्थोपरवः । अध्वर्युरित्यनन्तस्मवमशतीति शेषः । पूर्व- वदन्त उपयोर्मत्रयोः।

संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषो यवनो युयोध्यस्यमद्द्वेषाꣳसि यानि कानि चकृम देवानामिदं निहितं यदस्त्यथाभाहि प्रदिशश्चतस्रः कृण्वानो अन्याꣳ अधरान्सपत्नानित्यधस्तात्संमृशतः ।

अधस्तात्सम्यक्परस्परं मृशतः । संमृशतीमानायुष इति अपपाठ एव । एतादृशे पाठ एकत्रावमृशति एकत्र संमृशतीत्युपसर्गकृतं क्रिययोरूप्यं स्यात् । अतः संमृश इमानायुष इत्येव पाठो युक्तः । आपस्तम्बेनापि तथैव पाठ उक्तः । समृश इति मन्त्रावयव एव । इमानिति द्वितीयान्तस्य पदस्य क्रियापदं विनाऽऽकाङ्क्षाशान्ते- रमावात् ।

किमत्रेत्यध्वर्युः पृच्छति भद्रमिति यजमानः प्रत्याह तन्नौ सहेत्यध्वर्युः ।

किमत्रेत्यत्र यजमानः संबोध्यः । यजमानाध्वर्योरधस्तास्थितहस्तयोरेव प्रश्नप्रति- वचने । मद्रमित्यत्राध्वर्युः संबोध्यः । तन्नौ सहेत्यत्र यजमानः संबोध्यः । तत्रौ सहे. तिद्विवचनलिङ्गादध्वर्युनिष्ठमपि फलं तृतीयाध्यायेऽष्टमे पादे व्यपदेशाचेति सूत्रेण: जैमिनिरपि अध्वर्युनिष्ठत्वमपि फलस्याऽऽह । सूत्रार्थस्तु. यत्र, व्यपदेशो भवतिः तनी सहेति तत्रापि द्विवचनस्यानुपपत्तेविग्गामित्वमेव फलस्येति । पकारः कर्मार्थ तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात्स्यादिति ऋस्विगामित्वमेव फलस्योक्तं तदनु- कर्षणार्थः।

स्वराडसीत्यपरयोर्दक्षिणं यजमानोऽवमृशति विश्वाराडसीति पूर्वयोरुत्तरमध्वर्युः ।

अपरयोदक्षिणो नैतीस्थ उपरवः । पूर्वयोरुत्तर ऐशानीस्थ उपरवः । अन्यत्पूर्व- वयाख्येयम् । पूर्ववदन्तोऽनयोर्मन्त्रयोः ।

संमृशतो यथा पुरस्तात् ।

यथा पुरस्तादित्यनेन संमृश इमानायुष इति मन्त्रोऽधस्तात्प्रदेशश्च प्राप्यते । समृ. शति यथा पुरस्तादित्यपपाठ एव ।

किमत्रेति यजमानः पृच्छति भद्रमित्यध्वर्युः प्रत्याह तन्म इति यजमानः ।

किमत्रेत्यत्राध्वर्युः संबोध्यः । मदमित्यत्र यजमानः संबोध्यः । तन्म इत्यत्रा- ध्वर्यः संबोध्यः । अत्राप्यवस्तास्थितहस्तयोरेव प्रश्नप्रतिवचने ।