सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ५५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । द्वयस्यार्थादेतदनुरोधेनैव । उगवादिभ्यो यदिति यत्प्रत्यये नाभि नभं चेति नाभि. शब्दस्य नभादेशः । नाभेनाकारस्य हस्वः । पृथिव्या इत्यन्तो मन्त्रः । अन्तरालप्रमाणानियममाह-

यथार्थꣳ हविर्धानयोः ।। १६ ।। अन्तरालं कुरुतः ।

यथार्थं यथाप्रयोजनम् , अर्थमनतिक्रम्य यथार्थम् । पदार्थानतिवृत्तिरूपयथार्थ- समासोऽयम् । प्रयोजनादधिकमुभयोमध्येऽन्तरालं न कर्तव्यमित्यर्थः ।

वैष्णवमसि विष्णुस्त्वोत्तभ्नात्वित्युपस्तभ्नुतः ।

उपस्तम्भनाम्यां काष्ठाभ्यामिति शेषः ।

पुरस्तादुन्नते भवतः।

उपस्तम्भनं तथा कर्तव्यं यथा पुरस्तादुन्नते शकटे भवत इत्यर्थः ।

दिवो वा विष्णवुत वा पृथिव्या इत्याशीर्पदयर्चा दक्षि- णस्य हविर्धानस्य दक्षिणं कर्णातर्दमपरेण गेयो निहन्ति विष्णोर्नुकमित्युत्तरस्योत्तरं कर्णातर्दमपरेण प्रतिप्रस्थाता ।

आशीः प्रार्थनार्थकानि पदानि यस्यां साऽऽशोदा तयाऽऽशीर्पदया, एतादृश्यर्चे- त्यर्थः । हस्तौ पृणस्व बहुभिर्वव्यस राप्रयच्छ दक्षिणादोत सव्यादिति आशीः प्रार्थना- र्थकानि पदानि । आशीर्पदयेति ज्ञानार्थम् । ज्ञानाभावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाना होतव्यम् । दक्षिणस्य हविर्धानस्येति वचनं ब्राह्मणानुकरणार्थम् । दक्षिणस्य हविर्धानस्येत्येतस्योत्तरत्रानुवृत्तिं वारयितुमुत्तरस्येति वचनमावश्यकमेव । दक्षिणं कर्णातर्दमित्यत्र दक्षिणग्रणमुत्तरकर्णातव्यावृत्त्यर्थम् । कर्णातर्दशब्देनेषयोः संधानकील उच्यते । कर्णातईमित्यत्र द्वितीया, एनपा द्वितीयेति सूत्रेण । मेथी बन्ध- नार्थो दृढः स्तम्भः । उत्तरं कर्णातर्दमित्यत्रोत्तरग्रहणं दक्षिणव्यावृत्त्यर्थम् । मेर्थी निहन्तीत्यनुषज्यते । सव्यादित्यन्तः पूर्वो मन्त्रः । घोरुगाय इत्यन्त उत्तरः । विष्णोर्याणि प्रवोचमित्यनेन लिङ्गेनाऽऽशीर्पदसंज्ञा विष्णोर्नुकमित्येतस्या अपि । अथवा दिवो वा विष्णवित्येतस्या एवाऽऽशीर्पदसंज्ञा श्रुताचुक्ता तदनुरोधेन सूत्रेऽपि दिवो वेत्येतस्या एवेयं संज्ञा नोत्तरस्या इति । अस्मिन्पक्षे योगरूढत्वं पदस्थ द्रष्टव्यम् ।

विष्णोर्ध्रुवमसीति तत्रैते निबध्नीतः ।

तत्र तयोर्मेथ्योरेते शकटे कर्णातर्दयोनीतः । निशब्दो दार्थमाचष्टे । बन्धन रज्ज्वा वेष्टनम् ।

विष्णोर्ध्रुवोऽसीति ग्रन्थी कुरुतस्तौ प्रज्ञातौ भवतः ।

वेष्टितरज्ज्वोर्ग्रन्थी कुरुतः । तौ ग्रन्थी प्रज्ञातौ दृढौ, सदोहविर्धानानां पूर्वकृता. न्ग्रन्थीनिवस्त्रस्येत्यने सूत्रकृता ग्रन्थिविनंसनस्य विधास्यमानत्वात्तावत्पर्यन्तं प्रज्ञातत्वम् । 1 1