पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रं- [सप्तमप्र- घट्ट श्रोणिर्दक्षिणा स्यादेवमेवोत्तरा मता । युगं दशपदायाम नेति केचित्समूचिरे ॥ ३० ॥ त्रिवेदेष्वशलेप्पस्मिन्मते श्रोणिस्तु दक्षिणा । एवमेवोत्तराऽपि स्यादसावप्येवमीरिती ॥ ३१ ॥ सर्वतो युगमात्री वा स्यान्नाणीयस्त्वमत्र तु । पूर्वाग्रंशस्थाने तु यूपावट उदाहतः ।। ३२ ॥ आमीनीयस्य धिष्ण्यस्य मण्डपोऽथ प्रदर्यते । वेदेः पदेषु पाश्चात्यशङ्कोरर्केप तूत्तरे ॥ ३३ ॥ लक्ष्म स्याद्यन्महावया उत्तरांसस्य लक्ष्म च । एतयोश्चिह्नयोः सूत्रं तन्मध्येऽपि च लाञ्छनम् ॥ ३४ ॥ महावेद्युत्तरप्रान्तसूत्रमध्येऽपि लाञ्छनम् । एतयोरपि सूत्र स्यादथ पश्चार्यशङ्कृतः ॥ ३५ ॥ कृतं रविषु यलक्ष्म तावन्मानं च सूत्रकम् । तदुत्तरे प्रदेयं तु तत्र स्पष्टं च लाञ्छनम् ॥ ३६ ।। महावेयुत्तरांसात्तु देयं सूत्रमुदतथा । एतयोरपि सूत्र स्यात्ततो वेद्यन्तसूत्रके ॥ ३७॥ मध्ये कृतादनात्तु पुरः सार्धद्वये पदे। पश्चाच्च लाञ्छनं कार्य विहत्य चतुरश्रवत् ॥ ३८ ॥ मण्डपं तत्र संसाध्य कटायैस्तं परिश्रयेत् । द्वारं दक्षिणतः कुर्यात्षोडशाङ्गुलविस्तृतम् ॥ ३९ ॥ अथवाऽरनिविस्तारमथवा द्वारमेव न । किंतु दक्षिणतो नैव परिश्रयणमेव तु ॥ ४० ॥ मण्डपस्यर्जुतापक्षे प्रकारोऽयं प्रदर्शितः । मण्डपस्य प्रकारोऽथ वक्रतापक्ष ईयते ॥ ४१ ॥ महावेद्युत्तरप्रान्तसूत्रमध्ये तु लाञ्छनम् । कृत्वा सूत्रानुरोधेन तत्प्राक्सार्धपदद्वये ॥ ४२ ॥ प्रत्यक्चैवापि तद्वत्स्याच्छंस्यायतनवत्ततः । वक्रता यादृशी वेद्या मह्त्यास्ताहशी भवेत् ॥ ४३ ॥ वक्रता मण्डपस्यापीत्येवं पक्षद्वयं स्मृतम् । परमानं यदा वेद्यास्तदा तु सदआदिकम् ॥ ४ ॥ पदमानेनैव भवेदिति प्रोक्तं विचक्षणः । दशाझुलात्मकपदद्वयात्मा प्रक्रमो यदि ।। ४५ ।।