सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८० सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तमप्रश्ने-

क्षेमो अस्तु न इति षट्त्रिꣳशत्प्राचः प्रक्रमान्प्रक्रम्य शङ्कुं निहन्ति स पूर्वार्धे ।

वेदेरित्यनुवर्तते । प्रथमनिखाताच्छोरारम्य पत्रिंशत्प्राचः प्रासंस्थान्प्रक्रमान्प्र- क्रम्य वेदेः पूर्वार्धे पूर्वप्रान्तमवोदक्सूत्रप्राक्सूत्रयोर्यः संपातस्तत्र शकुं निहन्ति स वेदेः पूर्वार्धे मध्यमो भवति । सकृदेव मन्त्रः ।

पश्चार्ध्याच्छङ्कोः पञ्चदश दक्षिणतः पञ्चदशोत्तरतः प्रक्रम्य शङ्कू निहन्ति ते श्रोणी पूर्वार्ध्याच्छङ्कोर्द्वादश दक्षिणतो द्वादशोत्तरतः प्रक्रम्य शङ्कू निहन्ति तावंसौ ।

प्रक्रम्येत्यतः पूर्व प्रक्रमानिति पूर्वसूत्रादनुवर्तते । शुल्बसूत्रेणैव माने सिद्धेऽत्र वचनं श्रोण्यंतमानेष्वपि मन्त्रप्राप्त्यर्थम् । एतस्य सूत्रस्य स्वतन्त्रमानविधानार्थत्वे शुल्व- सूत्रोक्तप्रकारं विनाऽऽनवासंभवनासंगत्यापत्तेः । तेन पञ्चदश दक्षिणत इत्यत्राऽऽदौ मन्त्रेणैकं प्रक्रमं प्रक्रम्य तूष्णीमितरान्प्रकामति मन्त्रजन्यादृष्टलाभाय । एवं पञ्चदशो- त्तरत इत्यत्रापि द्वादश दक्षिणतो द्वादशोत्तरत इत्यत्रापि च । एवं च पृष्ठयां श्रोणि. द्वयमंसद्वयं मिलित्वा पञ्चवार मन्त्रावृत्तिः सिद्धा भवति । पश्चाधै भवः पश्चार्य- स्तस्मात् । पूर्वार्वे भवः पूर्वाध्यस्तस्मात् । दिगादित्वाद्यत्प्रत्ययः । पश्चार्धात्पूर्वार्धादि- त्यपपाठ एव । शुल्बसूत्रे त्रिशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति षट्त्रिंश- पाची चतुर्विशतिः पुरस्तात्तिरश्चीति सौमिक्या वेदेर्विज्ञायत इति । एतस्मात्सूत्राद्वे. दिमाने पदान्यपि प्रक्रमविकल्पन्ते । तत्र पदस्यानेकविधत्वमुक्तं शुल्बसूत्रे-पदे युगेऽ- रत्नावियति शम्यायां च मानार्थेषु याथाकामी शब्दार्थस्य विंशयित्वादिति । विश- यित्वात् , अनेकविधत्वादित्यर्थः । पदं दशाङ्गुलमिति बौधायनः । दशाङ्गुल क्षुद्रपद. मित्यपि सः । द्वादशाङ्गुल पदमिति कात्यायनः । एतानि त्रिविधानि पदानि लौकिकपदेन विकल्पते । एतान्येव द्विगुणानि त्रिगुणानि वा प्रक्रमा एतेन प्रक्रममानेनैव सप्तविधा- ग्निचित्ये सोमे मानम् । पदैर्मानं तु नात्र भवति । तत्राग्निक्षेत्रासंभवात् । एवं सप्तवि- धेऽनौ विंशत्यङ्गुलवृद्धिव्याख्याता । साग्निचित्ये तु सर्वेषामेव पदप्रकमाणामिच्छया विकल्प इति केचित् । अन्ये पुनरेवं व्यवस्थामिच्छन्ति पदैश्चविधैर्विशत्यङ्गुलेन वा प्रक्रमेण मानमग्निचित्ये । एकविवेऽग्नौ विंशत्यङ्गुलेन द्विविधादिषु पञ्चविधपर्यन्तेषु चतुर्विशत्यङ्गुलेन षड्विधादिषु द्वादशविधपर्यन्तेषु त्रिंशदङ्गुलेन लौकिकेन वा द्विपदेन त्रयोदशादिषु षट्त्रिंशदङ्गुलेनेत्यादिषु सर्वेषामपि पक्षे येऽग्नयः पञ्चचत्वारिं- शदङ्गुलेन प्रक्रमेण संभवन्ति तत्राग्न्यनुगुणा वेदेवृद्धिः कार्या यूपैकादशिन्यां तस्य प्रदर्शितत्वात् । यथा पञ्चाशद्विधेऽग्नौ षट्पञ्चाशदगुलो दण्डः प्रक्रमस्थानीयः, १ख.ग. एतेन ।