सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 ६५८ सत्याषादविरचितं श्रौतसूत्र- [ सप्तमप्रक्षे- प्रातरारम्यैवोपक्रमात्तदनुरोधेनैव प्रातःसायं प्रवर्योपप्तम्यां प्रचरतीत्येवं वक्तव्ये सामान्यतो निर्देशो व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणमिति परिभाषां ज्ञापयति । तेनाग्निकार्य उपस्थितिरूपव्याख्यानात्सायमुपक्रमस्यैव विशेषप्रतिपत्तिः । वैश्वदेवे दिवाचारिभ्य इति दिवा नक्तंचारिभ्य इति नक्तमिति । दिवानक्तं बलिमि- च्छन्त इति प्रातःसायंपरयोर्दिवानक्तंपदयोः क्रमदर्शनरूपव्याख्यानात्प्रातरुपक्रमस्यैव विशेषघ्नतिपत्तिः । अग्निहोत्रेऽग्निज्योतिज्योतिरमिः स्वाहा सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेतिमन्त्रक्रमदर्शनरूपव्याख्यानात्सायमुपक्रमस्यैव विशेषप्रतिपत्तिः । प्रकृते *यद्य. प्युभयथाऽपि क्रमो दृश्यते तत्राग्निोतियॊतिरग्निः स्वाहा सूर्यो ज्योतिज्योतिः सूर्यः स्वाहेत्येवं मन्त्रक्रमः, स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः ससादयति खाहा त्वा नक्षत्रेभ्य इति सायमित्येव मन्त्रविशेषविनियोगक्रमः । सुपूर्वाह्ने पौर्वाहिकीभ्या५ स्वप- राह आपराह्निकीभ्यामित्येवं कालविधिक्रमः । तत्र सायमुपक्रमसाधकलिङ्गापेक्षया प्रातरुपक्रमसाधकलिङ्गाधिक्यरूपव्याख्यानाद्विशेषप्रतिपत्तिः प्रातरुपक्रमस्यैवेति परि- भाषाप्रयोजनम् । तेन प्रकृते बहुदर्शनानुरोधेन सायंप्रातरिति पठितेऽपि प्रातःसायमि- त्येव क्रमः सिध्यति । तनूरित्यनुषङ्गप्रदर्शनार्थम् । उपसदाहुतिविधायकेन पूर्वसूत्रेण व्यवस्थाया असिद्धतात्तदर्थमिदं सूत्रम् । सुवेणैव प्रदान यस्याः सा नुवप्रदाना तां सुवप्रदानां स्त्रीलिङ्गद्वितीयैकवचनान्तमिदं पदम् । उपसदाहृतरियं संज्ञा, योगरूढ़ पदम् । नुवाति जुहोतीत्येव प्रसिद्धत्वाद्वक्तव्ये सुवप्रदानामित्येवं वचनं(ने) काच- दत्र विशेषोऽस्ति । स चेषुप्रक्षेपणक्रियानुकरणरूपः । तथा च सूत्रान्तरम्-इघुप्रक्षे. पणमिव या ते अग्नेऽयाशया तरिति सुवेणोपतदाहुतिं जुहोतीति । प्रथमेऽहनि प्रथमो. पसद्दिवसे या ते अग्नेऽयाशया तरिति मन्त्रेण प्रातःसायंकालिकप्रथमोपसत्प्रयोगयोः सुवप्रदानां जुहोतीत्यर्थः ।

या ते अग्ने रजाशयेति द्वितीये ।

अहनि सायंप्रातः स्रुवप्रदानां जुहोतीत्यनुवर्तते । द्वितीयेऽहनि द्वितीयोपसदिवसे या ते अग्ने रजाशया तनूरितिमन्त्रेण प्रातःसायंकालिकद्वितीयोपसत्प्रयोगयोः त्रुवप्र- दानां जुहोतीत्यर्थः । पूर्वमन्त्रे तरित्यनुषङ्गप्रदर्शनादत्राप्यनुषङ्गोऽर्थादर्शित एव भवति ।

या ते अग्ने हराशयेति तृतीये ।

अत्राप्यनीत्यादिकमनुवर्तते । तृतीयेऽहनि तृतीयोपसदिवसे या ते अग्ने हराशया तरिति मन्त्रेण प्रातःसायंकालिकतृतीयोपसत्प्रयोगयोः नुवप्रदानां जुहोतीत्यर्थः । अस्मिन्मन्त्रेऽनुषङ्गः पठित एव श्रुतौ ।

  • यद्यपीत्यसंबद्धम् ।