पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतृ०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ६५३ लेऽग्निहोत्रहवण्या सह हस्तस्य प्रयोगः । स च दक्षिणः । एकाङ्गवचने दक्षिणं प्रती- यादनादेश इत्याश्वलायनवचनात् । हस्तविषये त्वनिर्दिष्टस्थलेऽपि दक्षिणस्यैव ग्रह- णमित्येतादृशार्थस्य दर्शपूर्णमासयाजुषहौत्रसूत्रे होतरसान्वारम्भविधायके दक्षिणग्रह- णेन ज्ञापितत्वाच्च । संविशन्तामिति हस्तस्य समर्शनम् । दक्षाय मानुष्यप्ति । नास्ति प्रत्युष्टम् । दक्षिणहस्ते वाममुष्टोद्वपनम् । यावत्यग्निहोत्रह्वीकार्याणि तानि हस्ते. नैव कर्तव्यानि । इदं चाग्निहोत्रहवणीप्रत्याम्नायपक्षे ।

पल्या वा हस्तात् ।

शकरपायोः प्रत्याम्नायोऽयम् । अस्मिन्पक्षे हस्त एव सर्वमन्त्राणां जपो भवति ।

अन्वारब्धायां वा स्रुचा ।

अन्वारब्धायां पत्न्यां सत्यां सुचैव वा निर्वापः । अस्मिन्पक्षेऽग्निहोत्रबण्यामेव प्रोक्षणीसंस्कारादि । आयौ पक्षौ शाखान्तरीयौ । अन्त्यः खशाखागतः ।

अग्नेरातिथ्यमसीत्येतैः पञ्चभिस्त्रिषु सावित्रं जुष्टं चानुषजति ।

विष्णवे त्वेत्यन्ताः पञ्च मन्त्रास्तैः पञ्चभिः । निर्वपतीति शेषः । पञ्चकृत्वो गृह्णा. तीति श्रुतावप्ययमर्थः प्रतिपादितोऽस्ति । तत्र विशेषः । त्रिपस्थितत्वान्नोत्तमयोरि- त्येक इत्यापस्तम्बसूत्राचाऽऽयेषु । सावित्री देवस्य त्वेत्यादिहस्ताभ्यामित्यन्तो भागस्तं निर्वापमन्त्रेभ्यः पूर्व जुष्टशब्दं चैतेभ्य उत्तरमनुषजतीत्यर्थः । त्रिण्वितिवचना- दन्त्ययोर्मन्त्रयोः सावित्रजष्टयोरनुषङ्गो नास्तीति गम्यते । यथा देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्यामग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वामि । देवस्य त्वा सवितुः प्रसवेऽश्विनो हृभ्यां पूष्णो हस्ताभ्या५ सोमस्याऽऽतिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि । देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताम्यामतिथेरातिथ्यमति विष्णवे त्वा जुष्टं निर्वपामि । अग्नये त्वा रायपोषदान्ने विष्णवे त्वा निर्वामि । श्येनाय त्वा सोमभूने विष्णवे त्वा निर्वपामीत्येवं प्रयोगः । एतैरिति वचनं प्रतिमन्नं निर्वापसिद्ध्यर्थम् । पञ्चभिरितिवचनं पञ्चैते मन्त्रा भवन्ति तैः पञ्चभिः पञ्च निर्वापा भवन्तीत्येतादृशार्थबोधनार्थम् । चकारः सावित्राख्यः कश्च. न मागो जुष्टशब्दश्चेत्येतद्वयानुषङ्गलाभाय । न चैवं जुष्टमित्यस्य जुष्टं निर्वपामीत्ये. तावान्य उत्तरभागस्तत्परत्वमेव नतु जुष्टशब्दमात्रपरत्वम् । तथाच निर्वपामीत्ये. तस्यापि त्रिष्वेव प्रयोगो नावशिष्टयोयोरिति वाच्यम् । जुष्टशब्दस्योत्तरभागपरत्वेऽ. मेरातिथ्यमसीत्यतैः पञ्चभित्रिषु प्राकृतावनुषजतीति लाघवेनैव वक्तव्ये गुरुभूतसावि. त्रजुष्टशब्दोपादानस्य निरर्थकत्वापत्तेः । अतो जुष्टशब्दस्य भागपरत्वं न किंतु शब्दपरत्वमेव वक्तव्यम् । एतेनानुक्तस्य निर्वपामीत्येतस्य समुच्चयार्थश्चकार इति ८३