पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्रने- इव भवति । ग्रावाणो वा अद्रयस्तेषु वा एष सोमं दधातीत्यर्थवादादयमर्थो लभ्यते । शकटमिति शेषः । उपस्थितत्वात् । अद्रावित्यन्तो मन्त्रः ।

उदु त्यं जातवेदसमिति कृष्णाजिनेनोर्ध्वग्रीवेण बहिर्लोम्नाऽपिदधाति तरणिर्विश्वदर्शत इति वा ।

अपिदधातीत्यत्र द्वारमिति शेषः । सूर्यमित्यन्तो मन्त्रः । तरणिर्विश्वदर्शत इति वा । तरणिर्विश्वदर्शत इति वैकल्पिको मन्त्री रोचनमित्यन्तः ।

उस्रावेतं धूर्षाहावित्यनड्वाहावुपासजति ।

उलावेतमिति मन्त्रेणानाही शकटसमीपं प्रेरयति । ब्रह्मचोदनावित्यन्तो मन्त्रः । सकृदेव मन्त्री द्विवचनलिङ्गाद्विभवाच्च ।

धूरसीति धुरावभिमृशति ।

द्वयोधुरोरावृत्तिर्मन्त्रस्य ।

वारुणमसीति शकटमुत्खिदति ।

उत्खेदनमुद्यमनम् ।

प्रागीषमवस्थाप्य वरुणस्योत्तभ्नात्वित्युपस्तभ्नोति ।

अवस्थाप्य धृत्वा । उपस्तम्भनं काष्ठेऽवस्थापनम् । वरुणस्य स्कम्भनमसीति स्वशाखो- क्न विकल्पते ।

दक्षिणमनङ्वाहं युनक्ति ।

सामान्यप्रातिज्ञेयम् ।

वारुणमसीति योक्त्रं परिकर्षति ।

शम्याछिद्रयोयोक्त्रं बलीवर्दबन्धनरज्जु परिकर्षति ।

वरुणस्य स्कम्भनिरसीति शम्यामवगूहति ।

अवगृहनमभिहितयोक्त्रपाशे युगच्छिद्रेऽवधानं तहितीयस्याप्यापर्तते । वरुणस्य स्कम्भसर्जनमतीति स्वशाखोक्तेनाय विकल्पते ।

प्रत्यस्तो वरुणस्य पाश इति योक्त्रपाशं प्रत्यस्यति ।

शम्यायां प्रत्यस्यति श्लेषयति ।

बलीवर्दं चाभिनिदधाति ।

बलीवईमप्यनेनैव मन्त्रेण शृङ्गयोरभिधान्या बध्नाति ।

एवमुत्तरमनड्वाहं युनक्ति।

योपरिकर्षणशम्यावगृहनयोकपाशमत्यसनशृङ्गबन्धनैः ।

हरिणी शाखे बिभ्रदन्तरेषाꣳ सुब्रह्मण्य उपसर्पति पलाशशाखे शमीशाखे वा ।

शकटस्य दक्षिणोत्तर ईषाद्वयं तत्र यां कांचिदोषामन्तरा यस्याः कस्याश्चिदीपाया