पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६४३

इति तया सोमविक्रयिणꣳ रराटे विध्यति ।

कृष्णामूर्णास्तु कामु दकेन क्लेदयित्वेत्यन्वयः । उपप्रथनं गोलिकाकरणम् । तया गोलिकारूपया राटे रलयोः सावाल्ललाट इत्यर्थः । विध्यति प्रहरति । तयेतिवच- नाभाव ऊर्णास्तुकाया उपप्रधनमात्रं वेधस्तु अन्येन येन केनचिदनुपथितयोर्णास्तुकया वा स्यात्स मा भूदित्येतदर्थम् ।

स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन नः पाहीति सोमविक्रयिणो राजानमपादत्ते ।

सोमविक्रयिणः सकाशादाजानमपादत्ते गृह्णातीत्यर्थः । अपेत्युपसर्गो यथा हस्ताभ्यां न पतति तथा दानं कर्तव्यमित्यर्थ द्योतयति । अथवाऽत्र वाससा बन्धनं द्योतयितुम् ।

यदि कृच्छ्रायेतापैव हरेत ।

यदि तु सोमविक्रयी पुनर्लिप्तया दाने कृच्छ्रायेत दुःखायेत तदा वलादपहरेनैवे. तु त्यर्थः । उपैव होतेति पाठे झटितीत्यर्थ उपेत्युपसर्गः।

इन्द्रस्योरुमाविश दक्षिणमिति यजमानस्योरौ राजानमासादयति ।

करौ दक्षिणे मन्त्रलिङ्गात् ।

नीव गृह्णीते।

अन्तर्भावितोऽत्र णिच् । व्यत्ययो बहुलमिति सूत्रस्थेन मुप्तिकुपनहेत्यनेन च्छान्दस- मात्मनेपदम् । उपग्रहशब्देनाऽऽत्मनेपदं गृह्यते । निग्राहयतीवेति तदर्थः । निग्रहण माश्लेषणम् | आसादयतीत्येतस्मात्पूर्वमन्वयः । तेनाध्वर्योरेवेदम् ।

अध्वर्यवा शक्तवा इति यजमानः पृच्छत्याशकामेत्यध्वर्युः कथमाशकतेति विष्णुꣳ स्तोममरुत्स्महि बृहस्पतिं छन्दाꣳस्युत्थाय यजूꣳषि वि पर्वता अजिहत सुतरणा अपो अतारिषमित्यध्वर्युः ।

शक्तवै शत शक्तावित्यस्माद्धातोः कृत्यार्थे तवैप्रत्ययः । अध्वर्यो आ अत्यन्तं शक्तवै पर्वतात्सोमं गृहीत्वाऽवततुं शक्यं त्वया किमिति यजमानः पृच्छति । आश• कामेति लुडो रूपम् । आ अशकामेति पदच्छेदः । शक्कृ धातोरिच्छ लुङोति च्छिः । पुषादिद्युतालदितः परस्मैपदेष्विति च्लेरङ । लुछङ्लङ्वडुदात्त इत्यडागमः। अतो दोघो यजीति दीर्घः । आ अशकामेत्याकाराकारयोरेकादेशः सवर्णदीर्घः । आ अत्य- न्तमशकाम शक्ताः स्मेति तदर्थः । आशकामेत्यध्वर्युः प्रत्याह । कथमाशकवेति लुङो मध्यमपुरुषबहुवचनम् । तस्थस्थमिपामिति थविमक्तेस्तकारः पूनाथ बहुवचनम् । अत्र यद्यपि कर्तृनिर्देशो नास्ति तथाऽपि संदंशपतितत्वाद्यमानस्यैव प्रश्नकर्तृत्वं कथं केन प्रकारेण शक्ताः स्थेति । एतदुत्तरार्थक मन्त्रमाह-विष्णुमिति । स्तोम जनसमुदाय- १ इ.ज.स.स. . येतोपें ।