पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अक्षरस्वीकारप्रयोगः]
९०७
संस्काररत्नमाला ।

नैवेद्यं पायसं गुडौदनश्च । ततो हरिं लक्ष्मीं विघ्नेशं च नाममन्त्रैः संपूज्य 'ॐ स्वविद्यासूत्रकारेभ्यो नमः, ॐ स्वविद्यायै नमः' इति नाममन्त्राभ्यां स्वविद्यासूत्रकारान्स्वविद्यां च संपूज्य स्थण्डिलकरणादि । बलवर्धननामाऽत्राग्निः । समित्त्रयमादायेत्यादि प्राणायामान्तं कृत्वाऽक्षरारम्भार्थहोमकर्मणि या इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे सरस्वतीं हरिं लक्ष्मीं विघ्नेशं स्वविद्यासूत्रकारान्स्वविद्यां चाष्टाष्टसंख्याकाभिर्घृताहुतिभिर्यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणं द्विरित्यादि अग्निं स्विष्टकृतमित्यादि वा पूर्वान्तानुसारेणोक्त्वा समिदभ्याधानादि प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा प्रधानहोमं कुर्यात् ।

 'ॐ सरस्वत्यै स्वाहा । ॐ हरये स्वाहा । ॐ क्ष्म्यै स्वाहा । ॐ विघ्नेशाय स्वाहा । ॐ स्वविद्यासूत्रकारेभ्यः स्वाहा । ॐ स्वविद्यायै स्वाहा' इत्येतैर्नामभिस्तत्तद्देवतोद्देशेनाष्टाष्टसंख्याका घृताहुतीर्जुहुयात् । स्वविद्यासूत्रकारेभ्यः स्वविद्यायै च न वा होमः । ततोऽङ्गहोमादि स्विष्टकृदादि वा पूर्वान्तानुसारेण होमशेषं समापयेत् । न त्रिवृदन्नहोमः । आपूर्विकतन्त्रेण वा सर्वो होमः । स्वस्य कर्तुमसंभवेऽक्षरारम्भार्थहोमार्थमाचार्यं त्वामहं वृण इत्याचार्यं वृत्वा संपूज्य तेन होमं कारयेत् ।

 ततोऽक्षरप्रवक्तारं प्राङ्मुखमासीनं शक्तितो वस्त्रालंकारादिभिर्यथाविभवं संपूज्य शिष्टान्ब्राह्मणान्संपूज्य तेभ्यो यथाविभवं दक्षिणां दत्त्वा कुमारेण सह सर्वा आवाहितदेवतास्त्रिः प्रदक्षिणीकृत्य कुमारेणाक्षरप्रवक्त्रभिवन्दनं कारयित्वा क्रमेणाऽऽवाहितदेवता उद्वासयेत् ।

 ततः कुमारो ब्राह्मणान्पितृमात्रादीन्गुरुं च संपूज्य नमस्कृत्य प्राङ्मुखस्याक्षरप्रवक्तुः समीपे प्रत्यङ्मुख उपविश्याक्षरप्रवक्तारं नमस्कुर्यात् ।

 ततोऽक्षरप्रवक्ताऽऽयुष्मान्विद्यावान्भव सौम्या३ इत्याशिषो दत्त्वा प्रणवपूर्वकं लेखयेच्च । 'ॐ नमः सिद्धम्' इति पूर्वं पाठयित्वा लेखयित्वाऽकाराद्यक्षराणि पाठयेल्लेखयेच्चेति संप्रदायः । इति प्रयोगः ।

 अक्षरस्वीकृतिमारभ्यानध्यायवर्जनमुक्तं मार्कण्डेयेन--

"प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं तु कारयेत् ।
ततः प्रभृत्यनध्यायान्वर्जनीयान्विवर्जयेत्" इति ॥

 वर्जनीयान्नित्यानष्टमीचतुर्दश्यादीन् । विद्यारम्भश्चात्राक्षरपरिचितिः ।