पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तर्पणविधिः]
११९५
संस्काररत्नमाला ।

अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।
एकं जलाञ्जलिं दद्यात्कुर्यात्संक्षिप्ततर्पणम्" इति ।

 प्रकारान्तरमुक्तं विष्णुपुराणे--

"आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ।
क्षिपेत्पयोञ्जलींस्त्रींस्तु कुर्यात्संक्षिप्ततर्पणम्" इति ।

 यमतर्पणं तु[१] वृद्धमनुनोक्तम्--

"दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम् ।
कृष्णाङ्गारचतुर्दश्यामपि कार्यं सदैव तु ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै[२] नमः" इति ।

 एतत्प्रकारस्तु स्कन्दपुराणे निरूपितः--

"दीपोत्सवचतुर्दश्यां सव्येन यमतर्पणम् ।
अपसव्येन वा कुर्याद्यमस्यास्ति द्विरूपता" इति ।

 सव्यपक्षे प्राङ्मुखता देवतीर्थं तण्डुला यवा वा । अपसव्यपक्षे दक्षिणाभिमुखता पितृतीर्थं तिला इति द्रष्टव्यम् । एवं कुर्वतः फलमाह यमः--

"यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम् ।
संतर्प्य धर्मराजानं मुच्यते सर्वकिल्बिषैः" इति ।

 कृष्णचतुर्दशीमित्यनन्तरं प्राप्येति शेषः । माघशुक्लाष्टम्यां भीष्मतर्पणम् । तदुक्तं व्यासेन--

"शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम् ।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति" इति ।

 मन्त्रस्तु प्रयोगे वक्ष्यते । एतच्च ब्राह्मणस्य न भवतीति मदनपारिजाते । तर्पणप्रशंसा पुराणे दर्शिता--

"एवं यः सर्वभूतानि तर्पयेदन्वहं द्विजः ।
स गच्छेत्परमं स्थानं तेजोमूर्तिमनामयम्" इति ।


  1. च. तु. म ।
  2. क. च. ते ।