पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९२
[तर्पणविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

 तर्पयेदिति शेषः । कव्यवाडित्यादि तत्तच्छास्त्रोक्तपितॄणामुपलक्षणम् । ([१] जीवत्पितृकस्यापसव्ये विशेषः स्मृ[२]तिसारे--

"अपसख्यं द्विजाग्ज्याणां पित्र्ये सर्वत्र कीर्तितम् ।
आप्रकोष्ठात्प्रकर्तव्यं मातापित्रोस्तु जीवतोः" इति ॥)

 तिथ्यादिविशेषेण तिलतर्पणं निषेधति मरीचिः--

"सप्तम्यां रविवारे च गृहे जन्मदिने तथा ।
भृत्यपुत्रकलत्रार्थी न कुर्यात्तिलतर्पणम्" इति ॥

 अत्राधिकारिविशेषश्रवणाद्भृत्यपुत्रकलत्रकामस्यैवायं निषेधः, न तु विधुरापुत्रादेरिति नवीनाः ।

ब्रह्मपुराणेऽपि--"संध्ययोर्निशि सप्तम्यां न कुर्यात्तिलतर्पणम्" इति ॥

बौधायनोऽपि--

"सप्तम्यां रविवारे च जन्मर्क्षदिवसेषु च ।
गृहे निषिद्धं सतिलं तर्पणं तद्बहिर्भवेत् ॥
विवाहे चोपनयने चौले चैव यथाक्रमम् ।
वर्षमर्धं तदर्धं च न कुर्यात्तिलतर्पणम् ॥
संस्कारेषु तथाऽन्येषु जातपुंसवनादिषु ।
यावन्मासः समाप्येत तावत्पिण्डान्विव[३]र्जयेत् ॥
वृद्धावनन्तरं प्राज्ञस्तथैव तिलतर्पणम्" इति[४]

 तथैव मासपर्यन्तमित्यर्थः ।

स्मृत्यन्तरे--

"नन्दायां भार्गवदिने कृत्तिकासु मघासु च ।
भरण्यां भानुवारे च गजच्छायाह्वये तथा ॥
अयनद्वितये चैव मन्वादिषु युगादिषु ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्" इति ॥

 भविष्ये--

"भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
जन्मर्क्षदिवसे चैव न कुर्यात्तिलतर्पणम्" इति ॥

स्मृत्य[५]न्तरे--

"सप्तम्यां रविवारे च मातापित्रोः क्षयेऽहनि ।
तिलैर्यस्तर्पणं कुर्यात्स भवेत्पितृघातकः" इति[६]


  1. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  2. च. स्मृत्यन्तरे ।
  3. ङ. च. न्विसर्ज ।
  4. ङ. ति । स्मृ ।
  5. ङ. त्यर्थसारे ।
  6. ङ. ति । सर्वे ।