पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वेदपारायणोपाकरणप्रयोगः]
११८३
संस्काररत्नमाला ।
(वेदपारायणोत्सर्जनप्रयोगः)
 

परिकल्प्य, स्वस्ति न इन्द्र इत्यस्य[१] याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वेन्द्रादयस्त्रिष्टुप् । पठने विनियोगः । 'स्वस्ति न इन्द्रो० तिर्दधातु' इति पठेत् । तत ऊर्ध्वाग्रपञ्चाशत्कुशनिर्मितं कूर्चं प्रत्यगग्रं निधाय तत्र ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने विनियोगः 'ब्रह्म जज्ञानं प्रथ० विवः' इति सरस्वतीयुतब्रह्मावाहनं कुर्यात् । वेदात्मनायेति ब्रह्मगायत्र्या वा । अ[२]स्या याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा ऋषिः । ब्रह्मा देवता । गायत्री छन्दः । इत्यृष्यादिविनियोगवाक्यं प्राग्वत् । ततो नर्य प्रजामिति प्रतिष्ठाप्याऽऽसनपाद्यार्घ्याचमनीयस्नानवस्त्रद्वययज्ञोपवीतद्वयचन्दनकुङ्कुमाक्षतालंकारपुष्पपुष्पमालाधूपदीपनैवेद्य[३]फलताम्बूलदक्षिणाप्रदक्षिणानमस्कारात्मकैरुपचारैः समभ्यर्च्य गुरुं संपूज्य ब्राह्मणान्संपूज्य विष्णुं स्मरेत् । अत्र वा ब्रह्मपूजनम् । गुरोरसांनिध्ये तमुद्दिश्य प्रणामः कार्यः । ततो दर्भासनोपविष्टो दर्भपाणिः प्राड्मुख उपविश्याऽऽचम्य प्राणानायम्य प्रणवमुच्चार्य वाग्यत इषे त्वेत्यादिकं यथापाठं साङ्गं वेदपारायणमारभेत्(त) । प्रश्नान्तेऽनुवाकान्ते वा विरमेत् । प्रत्यहं प्रहरद्वयपर्यन्तं यावत्पारायणं भवति तावत्कर्तव्यम् । अतित्वरायां सार्धप्रहरद्वयपर्यन्तम् । आरण्यकप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कुर्यात् । द्वितीयदिने पूर्वीं शान्तिं कृत्वा कृतान्तादारभेत्(त) । कर्मसमाप्त्यन्तं ब्रह्मचर्यमधःशयनं स्वल्पं हविष्याशनं च कार्यम् । शक्तौ सत्यामुपोषणं ब्रह्मपूजनं च प्रत्यहम् । कर्मसमाप्त्यन्तं पतितरजस्वलादिसंभाषणं तत्समक्षमध्ययनं च न कुर्यात् । 'आ समाप्तेर्नाश्नीयाद्यथाशक्ति वाऽपः[४] पयः फलान्योदनं हविष्यमात्रमल्पं भुञ्जीत नोपरि शयीत न मैथुनं चरेत्पतिताद्यैर्न संभाषेत नैतत्समीपेऽधीयीत' इतिबौधायनोक्तेः[५] । ऋत्विक्कर्तृके पारायणे पारायणकारयित्राऽपि नियमाः कार्या एव । इति वेदपारायणोपाकरणप्रयोगः ।

अथ वेदपारायणोत्सर्जनप्रयोगः ।

 पारायणकर्ता समाप्ते पारायणे प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यापां समीपे शुचौ देश उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मया कृतस्य वेदपारायणस्य साङ्गतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदपारायणोत्सर्जनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । यदा तु स्वकर्तृकमेव पारायणं तदा गृह्याग्नौ होमस्य कर्तव्यत्वात्तदर्थं गमनवेलायामेव पूर्ववदग्निं समारोप्य तेन सहैव गच्छेत् । ततस्तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं


  1. ङ. स्य स्वयंभूरिन्द्रा ।
  2. ङ. अस्याः स्वयंभूर्ऋषिः ।
  3. क. च. द्यता ।
  4. क. च. पः फ ।
  5. ङ. क्तेः । इ ।