पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उत्सर्जनम्]
११६७
संस्काररत्नमाला ।

सप्तर्षिग्रहणं सप्तर्षीनुपस्थायेत्यादौ तत्रतेषामेव संप्रत्यय इत्येतदर्थम् । अत्र निवीतिवचनात्पूर्वत्र यज्ञोपवीतिता ग[१]म्यते । उत्तरत इत्यत्र देवानामिति शेषः । तेषामेव पू[२]र्वं क्लृप्तत्वात् । उदीचीनप्रवण इति वचनं पक्षे प्राप्तानां समत्वप्राक्प्रवणत्वप्रागुदक्प्रवणत्वानां बाधनार्थम् । अत्रापि शुचौ देश इत्यनुवर्तते । उदगग्रैरितिवचनं पक्षे प्राप्तायाः प्रागग्रताया बाधनार्थम् । प्रागपवर्गाणीतिवचनं पक्षे प्राप्ताया उदगपवर्गताया बाधनार्थम् । एतयोरन्तरालेऽरुन्धत्या इत्येतावतैव सिद्धे वसिष्ठकश्यपयोरन्तरालेऽरुन्धत्या इति गुरुसूत्रकरणमन्यत्रापि सप्तर्षयोऽरुन्धतीसहिता एव प्रत्येतव्या इत्येतदर्थम्, वसिष्ठकश्यपान्तराल एवारुन्धतीत्येवंभावनार्थं वा । यथोपस्थानादौ । अरुन्धत्या इत्यनन्तरं पुनः कल्पयन्तीतिवचनं विश्वामित्राद्यरुन्धत्यन्तानामेकगणत्वज्ञापनार्थम् । तेनैतेषां संलग्ना[३]न्यासनानि । दक्षिणत इत्यत्र देवानामिति शेषः । प्राचीनप्रवणपदसाहचर्यात् । प्राचीनप्रवण इति वचनं समत्वोदकप्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । ततोऽगस्त्यासनात्परिभाषयो[४]त्तरतः पुरतो वा । एकेतिवचनं कृष्णद्वैपायनादीनामेकैव वेदिः, देवानां वेदिरेका, सप्तर्षीणामरुन्धत्याश्चैका, अगस्त्यस्यैका, पितॄणामेकेति, सर्वेषामेतेषां पृथक्पृथगेव वेद्य इत्येतदर्थम् । अथवा--एकवेद्याम्, एका केवला या वेदिस्तस्यामित्यर्थः । एकेतिवचनं तत एकवेद्यां तेभ्य इत्यत्र प्राचीनप्रव[५]णे देश इत्यस्याप्यनुवृत्तिः स्यात्, अनुवृत्तौ च सत्यां प्राचीनप्रवणरूप एव देशे वेदिः कर्तव्येति नियमः स्यात्स मा भूदित्येतदर्थम् । अस्मिन्कल्प इत्तरेषां वेदिरेव नास्ति । तेभ्य इतिवचनमेकगणत्वज्ञापनार्थम् । तेन संलग्नान्येवैतेषामासनानि । तेभ्यो वक्ष्यमाणेभ्यः प्रसिद्धेभ्यः कृष्णद्वैपायनादीतिहासपुराणान्तेभ्यः । वरूथिन इत्यनन्तरं वाजिन इति केषुचित्सूत्रपुस्तकेषु पाठः । वसिष्ठायेन्द्रायेति नामद्वयमेव प्रयोगवैजयन्तीकारोक्तेः । दक्षिणतः प्राचीनावीतिन इत्यत्र कृष्णद्वैपायनादीनामेव ग्रहणं संनिहितत्वात् । प्राचीनावीतविधानं यज्ञोपवीतनिवीतयोर्बाधनार्थम् । दक्षिणाप्रवणवचनं समत्वप्राक्प्रवणत्वोदक्प्रवणत्वप्रागुदक्प्रवणत्वबाधनार्थम् । दक्षिणाग्रैरितिवचनमुदगग्रन्वप्रागग्रत्वयोर्बाधनार्थम् । प्रत्यगपवर्गाणीतिवचनं प्रागपवर्गत्वोदगपवर्गत्वयोर्बाधनार्थम् । आत्रेयाय पदकारायेत्येकमेव नाम । एवं कौण्डिन्याय वृत्तिकारायेतीदमपि । यथास्वं यथायथं यथाधिकारमिति यावत् । पितृभ्य


  1. क. नियम्यते ।
  2. च. पूर्वक्लृ ।
  3. ङ. च. ग्नान्येवाऽऽम ।
  4. क. च. योरुत्त ।
  5. क.च. वणदे ।