पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सभादीपदानम्]
११६३
संस्काररत्नमाला ।
( उत्सर्जनम् )
 

"भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि मे पुत्रानवैधव्यं च देहि मे ।
श्रावणे मास्युपाकर्मप्रारम्भे विप्रसंनिधौ ।
व्रीहितण्डुलपिष्टानां पलाशीत्या विनिर्मितम् ।
घृतवर्तिसमायुक्तं विमले कांस्यभाजने ।
स्थापितं तण्डुलप्रस्थयुक्पूगीफलसंयुतम् ।
मातुलिङ्गश्रीफलादिपञ्चसंख्यफलैर्युतम् ।
अवैधव्यसुपुत्रत्वदीर्घायुःश्रीसुखाप्तये ।
अभीष्टस्यास्तु मे प्राप्तिर्भवेऽस्मिंश्च भवान्तरे ।
श्रावण्यां श्रवणर्क्षे च सभायामग्निसंनिधौ ।
सभादीपं प्रदास्यामि तुभ्यं विप्र सदक्षिणम्" ।

 इति सदक्षिणं विप्राय दद्यात् । प्रतिगृह्णामीति विप्रः । एवं पञ्चवर्षपर्यन्तं श्रावण्यां पौर्णमास्यां दीपदानं कृत्वोद्यापनं कुर्यात् । पञ्चवर्षपर्यन्तं कृतस्य सभादीपप्रदानकर्मणः संपूर्णताया उद्यापनं करिष्य इति संकल्प्य गणपतिं संपूज्य पञ्चप्रस्थसंमितानि पञ्च धान्यानि पञ्चसु पात्रेषु भूमौ वा निधाय मध्यस्थधान्यराशौ प्रस्थपरिमिततण्डुलपूरितं पात्रं निधाय तत्र दीपं संस्थाप्य तत्समीपे यथासंभवसुवर्णनिर्मिते रजतनिर्मिते वा दीपपात्रे यथासंभवसुवर्णनिर्मितां वर्तिकां निधाय तत्समीपे कार्पासवर्तिकां घृताभ्यक्तां निधाय दीपद्वयं प्रज्वाल्य दीपपात्रद्वयं यज्ञोपवीतेन वेष्टयित्वा वस्त्रद्वयं समीपे संस्थाप्य दीपं विप्रं च संपूज्य सभादीपदानसंपूर्णताया इमं सोपस्करं सदक्षिणं सभादीपं संप्रददे न ममेति दद्यात् । इत्याचारप्राप्तं सभादीपप्रदानम् ।

अथोत्सर्जनम् ।

 तत्रेदं गृह्यम्-- 'तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः' इति । तिष्येण युक्ता संनिहिता वा पौर्णमासी तैषी तया युक्तः पक्षस्तैषीपक्षः । तैषमासशुक्लपक्ष इति यावत् । पुष्यस्यैव तिष्य इति नामान्तरम् । तैषशुक्लपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः । उत्सर्जनं कर्तव्यमित्यर्थः । अध्यायस्येति शेषः । धर्मसूत्रेऽपि-- 'तैषीपक्षस्य रोहिण्यां विरमेत्' इति । पुनरिदं वचनं रोहिण्या मुख्यत्वं द्योतयितुम् । पर्वनक्षत्रनिर्णयः पूर्ववदेवात्रापि द्रष्टव्यः । रोहिणीपौर्णमास्योरर्धरात्रात्पूर्वं संक्रान्तिग्रहणसत्त्वे माघ्यां पौर्णमास्यां हस्ते वा कार्यं बौधायनसूत्रात् । अर्धरात्रोत्तरं संक्रान्तिग्रहणसत्त्वे तु तस्मिन्नेव दिने कार्यम् । अस्तादिनिर्णयोऽपि पूर्ववदेव ।