पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६०
[उपाकरणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

भुवं काण्डर्षिमित्यनन्तरमरुणान्काण्डर्षीनित्युक्त्वा सावित्रीमित्यादि वदेत् । सांहितीदेवतोपनिषदादीनामप्यनन्तर्भावपक्षेऽरुणान्काण्डर्षीनित्यनन्तरं सांहितीर्देवता उपनिषदो वारुणीर्देवता उपनिषदो याज्ञिकीर्देवता उपनिषद इत्युक्त्वा सावित्रीमित्यादि वदेत् । तत्सवितुरित्यनेन होमपक्षे सावित्रीमित्येतस्य स्थाने सवितारमित्युत्कीर्तयेत् । काण्डनामभिर्होमपक्षे प्रधानहोमे प्राजापत्यं काण्डं सौम्यं काण्डमाग्नेयं काण्डं वैश्वदेवं काण्डं सावित्रीमृग्वेदमित्यादि । स्वायंभुवकाण्डस्यानन्तर्भावपक्षे वैश्वदेवं काण्डमित्येतदनन्तरं स्वायंभुवं काण्डमित्युक्त्वा सावित्रीमित्यादि समानम् । आरुणकाण्डस्याप्यनन्तर्भावपक्षे स्वायंभुवं काण्डमित्येतदनन्तरमरुणं काण्डमित्युक्त्वा सावित्रीमित्यादि । सांहितीदेवतोपनिषदादीनामप्यनन्तर्भावपक्ष आरुणं काण्डमित्येतदनन्तरं सांहितीदेवतोपनिषत्काण्डं वारुणीदेवतोपनिषत्काण्डं याज्ञिकीदेवतोपनिषत्काण्डमित्युक्त्वा सावित्रीमित्यादि समानम् । पात्रासादन आज्यासादनोत्तरमुपवीतासादनम् । व्याहृतिहोमान्ते 'प्रजापतये काण्डर्षये स्वाहा' प्रजापतये काण्डर्षय इदं न मम । 'सोमाय काण्डर्षये स्वाहा' सोमाय काण्डर्षय इदं न मम । 'अग्नये काण्डर्षये स्वाहा' अग्नये काण्डर्षय इदं न मम । 'विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा' विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदं न मम । 'स्वयंभुवे काण्डर्षये स्वाहा' स्वयंभुवे काण्डर्षय इदं न मम इत्यन्वाधानोत्कीर्तनानुसारेण चतुरः पञ्च वा काण्डर्षीञ्जुहुयात् । अन्वाधाने षण्णामुत्कीर्तने--अरुणेभ्यः काण्डर्षिभ्यः स्वाहेति षष्ठीं जुहुयात् । नवानामुत्कीर्तने सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेति सप्तमीम्, वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेत्यष्टमीं, याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेति नवमीं जुहुयात् । यथालिङ्गं त्यागः । अन्वाधाने काण्डनामोत्कीर्तने 'प्राजापत्याय काण्डाय स्वाहा, प्राजापत्याय काण्डायेदं न मम । सौम्याय काण्डाय स्वाहा, सौम्याय काण्डायेदं न मम । आग्नेयाय काण्डाय स्वाहा । आग्नेयाय काण्डायेदं न मम । वैश्वदेवाय काण्डाय स्वाहा । वैश्वदेवाय काण्डायेदं न मम । स्वायंभुवाय काण्डाय स्वाहा । स्वायंभुवाय काण्डायेदं न मम' इत्यन्वाधानोत्कीर्तितपक्षानुसारेण चतुर्भिः पञ्चभिर्वा काण्डनामभिर्होमः । अन्वाधाने षण्णामुत्कीर्तने--आरुणाय काण्डाय स्वाहेति षष्ठ्याहुतिः । नवानामुत्कीर्तने सांहितीदेवतोपनिषत्काण्डाय स्वाहा । वारुणीदे० त्काण्डाय स्वाहा । याज्ञिकीदे० त्काण्डाय स्वाहेत्यारुणकाण्डाहुतेरनन्तरमेतास्तिस्रो होतव्याः । यथालिङ्गं त्यागः । ततः सावित्र्यै स्वाहा । सावित्र्या इदं० । अन्वाधाने सवितुरुत्कीर्तने तत्सवितुरिति गायत्र्या स्वाहान्तया होमः । एतस्या ऋष्यादि