पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११३६
[श्रवणाकर्म]
भट्टगोपीनाथदीक्षितविरचिता--

कालस्तत्कालव्यापिनी तिथिः" इति वचनात् । दिनद्वयेऽपि तत्संबन्धे सत्यसति वा परैव । "श्रवणाकर्मणि ग्राह्या पौर्णमासी परैव तु" इति निगमोक्तेः ।

 कर्ता[१] श्रावण्यां पौर्णमास्यां प्रातः कृतनित्यक्रियो देशकालौ संकीर्त्य नित्यविधिरूपं श्रवणाकर्म करिष्य इति संकल्प्य गणपतिं संपूज्य, प्रथमप्रयोगश्चेत्प्रातः स्वस्तिवाचनं मातृकापूजनं वृद्धिश्राद्धं च वि[२]दध्यात् । बहिर्भूतं वा गणपतिपूजनस्वस्तिवाचनादि । अस्मिन्पक्षे रात्रावेव मुख्यसंकल्पः । प्रथमप्रयोगे गुरुशुक्रास्तादि वर्जयेत् ।

 ततो यथाविहितमग्निमुपसमा[३]धाय--अक्षता [४]धाना अक्षताल्लाँजान्सक्तून्किंशुकान्याञ्जनाभ्यञ्जने आज्यमिति सिद्धान्यादद्यात् । भर्जिता यवा धानाः, लाजा व्रीहिमय्यः, भर्जितयवपिष्टानि सक्तवः । किंशुकानि पलाशपुष्पाणि । आञ्जनाभ्यञ्जने प्रसिद्धे । एतान्युपकल्पयति । ततो दक्षिणाग्निं परिस्तृणाति । अनाहिताग्निरौपासनम् । यदि पूर्वेद्युरन्वाधानं कृतं भवति तदोपासनाग्नेः परिस्तृतत्वान्न परिस्तरणम्[५] । सायंहोमात्प्राक्परिस्तरणाक्रियायां कर्मार्थं परिस्तरणं कर्तव्यमेव । दक्षिणाग्नेस्तु सायमग्निहोत्रहोमानन्तरमे[६]वैतस्य कर्तव्यत्वविधाने[७]नैतत्कर्मोत्तरमेवेष्ट्यर्थपरिस्तरणप्राप्तेरपरिस्तृतत्वात्परिस्तरणं भवत्येव[८] । पार्वणस्थालीपाके सायमौपासनहोमोत्तरं परिस्तरणक्रियापक्षे औपासनाग्नेरप्यनेनैव न्यायेन परिस्तरणं कार्यमेव । तत औपासनाग्नौ होमे तं समन्त्रं परिषिञ्चेत् । दक्षिणाग्नौ होमे तं तूष्णीम् । तत उत्तरतोऽग्नेर्दर्भानास्तीर्य तेषु स्रुवं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमाज्यासादनार्थं दर्भा[९]न्धानादिद्रव्याणि समिधं संमार्गदर्भानवज्वलनदर्भानाज्यं चाऽऽसाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कुर्यात् । तत्र पर्यग्निकरणमाज्यस्य धानादिभिः सहैवेति विशेषः ।

 ततः पात्रान्तरे धाना लाजान्सक्तूंश्च प्रोक्षप्यासंस्कृतेनाऽऽज्येन मिश्रयित्वा तूष्णीं समिध[१०]मभ्याधाय संस्कृतेनाऽऽज्ये[११]न स्रुवेण दर्व्यामुपस्तीर्य द्विरवदायाभिघार्य-- 'नमोऽग्नये पार्थिवाय पार्थिवानामधिपतये स्वाहा' अग्नये पार्थिवाय पार्थि


  1. ङ. तौ दे ।
  2. च विधाय ।
  3. क. च. मादधाति । अक्षता धाना लाजा व्रीहि ।
  4. अत्राक्षताशब्दरहितः "धाना लाजान्सक्तून्" इत्यादिरेव पाठो युक्त इति भाति, उत्तरग्रन्थानुरोधात् ।
  5. ङ. म् । द ।
  6. च. मेव त ।
  7. च. नेन त ।
  8. ङ. व । तत ।
  9. क. च. र्भानुपवेषमक्षता धाना लाजाः सक्तवः पलाशपुष्पाण्याञ्जनाभ्यञ्जने समि ।
  10. ङ. धमाधा ।
  11. ङ. ज्येनोप ।