नाङ्गबलिदानं ग्राह्यम् । प्राणाहुत्यादय इत्यत्राऽऽदिशब्देनोत्तरापोशनादिकं ग्राह्यम् । नित्यस्नानमङ्गतर्पणसहितमेव कार्यम् ।
"अस्पृश्यस्पर्शने वान्ते अश्रुपाते [१]क्षुरे भगे । |
इति अस्पृश्यस्पर्शादिनिमित्तकस्नान एव तर्पणाद्यङ्गपर्युदासात् । काम्यस्यापि कस्यचित्प्रतिप्रसवं पुलस्त्य आह सद्यःशौचमित्यनुवृत्तौ--
"सांनिहित्यमुपस्पृश्य राहुग्रस्ते दिवाकरे । |
संनिहिततीर्थे स्नात्वा राहुग्रस्ते काम्यदानं कुर्यात् । तथाऽन्नसत्रप्रवृत्तोऽपीति व्याख्यातं पारिजाते ।
जमदग्निः--
"सूतके मृतके चैव जाह्नव्याः सलिले स्थितः । |
इदमपि काम्यविषयमित्यपि तत्रैवोक्तम् ।
ग्रहणश्राद्धादावप्याशौचापवादमाह व्याघ्रः--
"स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके" इति । |
- लैङ्गेऽपि--
"सूतके मृतके चैव न दोषो राहुदर्शने । |
वृद्धशातातपः--
"यदा भोजनकाले तु अशुचिर्भवति द्विजः । |
इदमविशेषात्सूतकादिपरमिति शुद्धितत्त्वे शूलपाणौ च ।
षट्त्रिंशन्मते--
"उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । |
उभाभ्यां भोक्तृभोजयितृभ्याम् ।
माधवीये मात्स्ये--
"सूतकान्ते नरः स्नात्वा पूजयित्वा जनार्दनम् । |
- ↑ क. पुस्तकटिप्पण्यां--'क्षुरे श्मश्रुकार्ये । भगे मैथुने" इति वर्तते ।