पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[माध्यावर्षश्राद्धप्रयोगः]
११२५
संस्काररत्नमाला ।
( अष्टकाश्राद्धाङ्गभूतं पूर्वेद्युःश्राद्धम् )
 

चेष्टापत्तिः । एतेन माध्यावर्षमित्यत्रत्यातिदेशबोधितपृथग्भावस्योच्छेदापत्तेः । तत्रत्यनैयत्यानैयत्यधर्मयोः परस्परविरोधेन तन्त्रासंभवाच्च ।

 केचित्तु प्रोष्ठपदीश्राद्धमेव माध्यावर्षश्राद्धमित्याहुः । तन्न । एतेन माध्यावर्षं व्याख्यातमितिसूत्रान्मासिकश्राद्धदेवतोद्देश्यकश्राद्धस्यैव कर्तव्यताया अवगतत्वेन प्रोष्ठपदीश्राद्धस्य तथात्वाभावेनासंभवात् । नान्दीमुखसंज्ञकत्रयीपरतरपितॄणां हि प्रोष्ठपदीश्राद्धे देवतात्वं न मासिकश्राद्धोद्देश्यानाम् ।

 न च माध्यावर्षेऽङ्गातिदेशमात्रमेतेन माध्यावर्षमित्यनेन क्रियते न देवतातिदेश इति वाच्यम् । तत्र मांसं नियतं मांसाभावे शाकमित्यनेन देवतातिदेशसत्त्वस्याप्यवगमात् । न च सांवत्सरिकश्राद्धीयैकवर्गोद्देश्यकत्वेन दर्शश्राद्धीयवर्गद्वयोद्देश्यकत्वबाध इवात्रापि नान्दीमुखसंज्ञकत्रयीपरतरपितृवर्गोद्देश्यकत्वेन पितृवर्गमातामहवर्गद्वयोद्देश्यकत्वबाधः, तथा च प्रोष्ठपदीश्राद्धे माध्यावर्षत्वसिद्धिर्निराबाधेति वाच्यम्[१] । प्रकृतिविकृतिभावसत्त्व एव बाध्यबाधकभावस्य सर्वमतसिद्धत्वात् । अन्यथाऽतिप्रसङ्गापत्तेः । न हि प्रोष्ठपदीश्राद्धं मासिकश्राद्धविकृतिभूतं येन तदीयदेवतानिर्बाधो भवेत् ।

 न च [दर्श?]श्राद्धविकृतित्वं प्रोष्ठपदीश्राद्धस्य सर्वस्मृतिसिद्धम् । दर्शश्राद्धमेव मासिकश्राद्धं तथा च प्रकृतिविकृतिभावोऽस्त्येवेति वाच्यम् । तस्य पूर्वमेव खण्डितत्वात् । तथा च माध्यावर्षश्राद्धं भिन्नमेव । वर्षस्य मध्यं मध्यावर्षं तत्र भवं माध्यावर्षमितिव्युत्पत्तौ माध्यावर्षशब्दस्य पृषोदरादित्वकल्पनया साधुत्वम् ।

 [तच्च] मासिकश्राद्धवत्कर्तव्यम् । ) अत्र मातामहपार्वणमपि । अपां प्रसेकोदपात्रोपप्रवर्तने न स्त इति मातृदत्तवैजयन्तीकारौ । माध्यावर्ष इमामूर्जमित्यूहितेनाऽऽपो देवीः प्रहिणुतेतिमन्त्रेणापां प्रसेकम्, अथ माध्यावर्षे पुनरायातेत्यूहितेन परा यात पितर इत्यनेन मन्त्रेणोदपात्रोपप्रवर्तनं च कर्तव्यमेवेति युक्तं प्रतिभाति ।

 अस्मिञ्श्राद्धे मांसं नियतं तदभावे प्रतिनिधित्वेन शाकमावश्यकमिति मासिश्राद्धतो विशेषः । एतेन ज्ञायते मासिकश्राद्धे मांसस्यानियतता । कलौ मांसाशित्वस्य निषिद्धत्वाच्छाकदानमेव । अ[२]त्र मासिकश्रा[३]द्धवत्पूर्वमेव तर्पणम् ।

इति माध्यावर्षश्राद्धम् ।

अथाष्टकाश्राद्धाङ्गभूतं पूर्वेद्युःश्राद्धम् ।

 तस्य कालो गृह्ये--'ततः पूर्वेद्युरनूराधेष्वपराह्णे' इति । तत एकाष्टकातः ।


  1. च. म् । तस्य ।
  2. ङ. अत्रान्त एव त ।
  3. च. श्राद्धात्पू ।