पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२०
[वृद्धिश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

वसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नान्दीमुखेभ्य इदमन्नं सोपस्करं स्वाहा हव्यं न ममेति द्वितीयदेवविप्रद्वयहस्तयोरुदकं दत्त्वा ये देवा दिवीत्युपतिष्ठते ।

 ततः[१] सत्यं त्व० परिषिच्य, 'पृथिवी ते पा० म्यक्षि० मातृपितामहीप्रपितामहीनां नान्दीमुखानां क्षेष्ठा अमुत्रामुष्मिँल्लोके' इति मातृवर्गीयविप्रपात्रद्वयस्थमन्नं मन्त्रावृत्त्याऽभिमृश्य, 'इदं विष्णु०' 'विष्णो हव्यं रक्षस्व' इति तयोरङ्गुष्ठमनखं मन्त्रावृत्त्या तत्तदन्ने निवेश्य मातृपितामहीप्रपितामहीभ्यो नान्दीमुखाभ्य इदमन्नं सोपस्करं स्वाहा ह[२]व्यं न ममेति मातृवर्गीयविप्रहस्तयोरुदकं दद्यात् । एवमूहेन पितृपार्वणे मातामहपार्वणे[३] च । तत्र मातामहपार्वणे नान्दीमुखशब्दात्पूर्वं सपत्नीकशब्दप्रयोगः । एवमन्नं निवेद्य कुलदेवतां संपूज्य 'यन्तु नदयः' इति पठित्वा नान्दीमुखाः पितरः प्रीयन्तामिति वाचयित्वा प्रीयन्तां नान्दीमुखाः पितर इति तैरुक्ते तान्नमस्कृत्य ब्रह्मार्पणं कृत्वा परिविष्टान्नेषु सर्पिरासिच्यापोशा(ऽऽपोश)नोदकदानादि यथासुखं जुषध्वमित्युक्त्वा 'अपेक्षितं याचितव्यम्' इति विप्रप्रार्थनान्तं कुर्यात् । वि[४]प्राः परिषेकबलिदानवर्जं विधिना भुञ्जीयुः । तेषु भुञ्जानेषु राक्षोघ्नं[५] पवमानानुवाकम् 'आशुः शिशानः ' इत्यनुवाकम् 'इन्द्रं वो विश्वतस्परि हवामहे' इत्यादीनैन्द्रमन्त्रांश्चाभिश्रावयेत् । भोजनान्ते ('[६] मधु वाताः' इत्येतस्य स्थाने 'उपास्मै गायता नरः पवमा० मधु' इति पञ्चर्चः श्रावयेत् । 'अक्षन्नमीमदन्त' इति च ।

 ततः ) सत्यसंज्ञका विश्वे देवा नान्दीमुखा नान्दीश्राद्धं रु[७]चितम् । वसुसंज्ञका विश्वे देवा नान्दीमुखा नान्दीश्राद्धं रु[८]चितम्[९] । सुरुचितमिति देवविप्रौ प्रतिब्रूयाताम् । मातृपितामहीप्रपितामह्यो नान्दीमुखा नान्दीश्राद्धं संपन्नं पितृपितामहप्रपितामहा नान्दीमुखा नान्दीश्राद्धं संपन्नं मातामहमातुःपितामहमातुःप्रपितामहाः सपत्नीका नान्दीमुखा नान्दीश्राद्धं संपन्नमिति तत्तद्विप्रं प्रति वदेत्[१०] । सुसंपन्नमिति पितृविप्राः प्रतिब्रूयुः । अयमेवात्र तृप्तिप्रश्नः ।

 तत उच्छिष्टभाग्भ्योऽन्नं दीयतामित्यादिविप्राचमनान्तं समानम् ।

 आचान्तेषु विप्रेषु शीघ्रमुच्छिष्टं निष्काश्य भूमिं संमार्ज्य पिण्डदानं कुर्यात् । तत्रायं विशेषः--मार्जयन्तां मातरो नान्दीमुखाः सोम्यासः । मार्ज० पिता


  1. ङ. तः पृ ।
  2. ङ. कव्यं ।
  3. क. च. णे ना ।
  4. ङ. विप्रा ब ।
  5. ङ. क्षोघ्नमैन्द्र ।
  6. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  7. ङ. संपन्नम् ।
  8. ङ. संपन्नम् ।
  9. ङ. च. म् । मा ।
  10. ङ. च. त् । सुरुचितमिति देवविप्रौ प्रतिब्रूयाताम् । सु ।