पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[महालयश्राद्धप्रयोगः]
११११
संस्काररत्नमाला ।

स्थाने । यदा तु चत्वारस्तदैको देवस्थाने पितृमातृपार्वणयोः सापत्नमातरि चैकः । मातामहमातामहीपार्वणयोरेक एकोद्दिष्टेष्वेकः । पञ्चपक्षे देवस्थान एकः पितृपार्वण एको मातृपार्वणे सापत्नमातरि चैको मातामहमातामहीपार्वणयोरेकः पत्न्यादिष्वेकः । षट्पक्षे सापत्नमात्रर्थे पृथक् । सप्तपक्षे पत्न्यर्थमेकः पुत्राद्यर्थमेक इत्यादि यथासंभवं समावेशो ज्ञेयः ।

 अत्र देवाद्यन्तताऽपि पक्षे । स च देवो गदाधरशब्देन व्यवह्रियत इदानीं शिष्टैः ।)

 ततो यवमिश्रितमुदकं कृत्वेत्याद्याच्छादनान्तं समानम् ।

 तत्रार्घ्ये विशेषः । पितृवर्गार्थं पात्रत्रयं मातृवर्गार्थं पात्रत्रयं दर्भत्रयात्मकपवित्रयुक्तं संस्थाप्य सापत्नमात्रर्थमेकदर्भमयपवित्रयुक्तमेकं पात्रं मातामहवर्गार्थं पात्रत्रयं दर्भत्रयात्मकपवित्रयुक्तं तथैव मातामहीवर्गार्थं च निधाय पत्न्या[१]द्यर्थं प्रत्येकमेकैकं पात्रमेकदर्भमयपवित्रयुक्तं संस्थापयेत् । तत्क्रमेणैव पूरणादि ।

 प्रतिपितृव्यक्त्यूहेनार्घ्यदानम् । एवं गन्धादिष्वपि यथायथं नामविभक्त्यूहो द्रष्टव्यः । पितृपात्र एव सर्वपात्रस्थशेषमासिच्य त[२]देव न्युब्जं स्थापयेत् । गदाधरसत्त्वे पितृपूजनोत्तरं देववत्तस्यापि पूजनम् ।

 ततो वर्गचतुष्टयपितॄनभिध्यायन्सकृदाच्छिन्नच्छेदनादि होमतन्त्रं पिण्डपितृयज्ञवत्कुर्यात् । ततश्चतुर्थ्यन्ततत्तन्नामभिरन्नदानम् ।

 पिण्डदाने पितृवर्गार्थं रेखां कृत्वा तत्पश्चिमतः किंचित्स्थलं त्यक्त्वा तत्र पितृवर्गाद्दक्षिणतो वा मातृवर्गार्थं तत्पश्चाद्दक्षिणतो वा सापत्नमात्रर्थं मातृवर्गस्य पश्चिमतो दक्षिणतो वा व्यवहिते देशे सापत्नमातुर्दक्षिणतो मातामहवर्गार्थं तद्दक्षिणतो मातामहीवर्गार्थमित्येवं रेखा लिखित्वा मातामहीवर्गाद्दक्षिणतः पत्न्यादिसर्वपितॄणां संनिवेशो यथा भवति तथा दीर्घां रेखां लिखेत् ।

 अथवा प्रत्येकोद्दिष्टपितृव्यक्तिपङ्क्त्याकारेण रेखा लेखनीयाः । तत्र सकृदाच्छिन्नं महद्बर्हिरास्तीर्य तत्तद्रेखास्थबर्हिःप्रदेशे तत्तन्नाम्ना तत्तत्पिण्डान्दद्यात् । तत्र मार्जने मातृवर्गोत्तरं मार्जयन्तां सापत्नमातरः सोम्यासः । मार्जयन्तां मातामहाः सो० । मा० मातुःपितामहाः सो० । मा० मातुःप्रपितामहाः सो० । मा० मातामह्यः सो० । मा० मातुःपितामह्यः सो० । मा० मातुःप्रपितामह्यः सो० । मा० पत्न्यः सो० । मा० पुत्राः सो० । मा० दुहि


  1. ङ. त्न्यादिपित्रर्थं ।
  2. ङ. तस्यैव न्युब्जं स्थापनं कुर्यात् । वर्ग ।