पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिकश्राद्धप्रयोगः]
१०८९
संस्काररत्नमाला ।

 ततः स्वयमेव ब्राह्मणगृहं गत्वा दक्षिणहस्तेन ब्राह्मणस्य[१] दक्षिणं जान्वालभ्य, अद्य करिष्यमाणे मत्पितुर्मासिकश्राद्धे पुरूरवसंज्ञकदेवार्थं त्वां निमन्त्रय इति निमन्त्र्य दैवे क्षणः क्रियतामिति ब्रूयात् । ॐ तथेति स प्रतिजानीयात् । एवं द्वितीयं ब्राह्मणं निमन्त्रयेत् । तत्राऽऽर्द्रवसंज्ञकदेवार्थं त्वां निमन्त्रये दैवे क्षणः क्रियतामिति विशेषः ।

 उभयत्रापि पुरूरवार्द्रवसंज्ञकदेवार्थं त्वां निमन्त्रये दैवे क्षणः क्रियतामित्येवं वा । इदं च पक्षद्वयं सर्वत्र ज्ञेयम् ।

 मातामहार्थं पृथग्वैश्वदेवपक्षे तदर्थमपि द्वौ विप्रौ[२] पूर्ववन्निमन्त्रयेत्[३] । अत्र देवविप्रौ 'आ ब्रह्मन्' इत्यनुवाकं जपेताम् ।

 ततः प्राचीनावीती पित्रर्थब्राह्मणगृहं गत्वा तस्य सव्यजानुन आलम्भनं कृत्वाऽद्य करिष्यमाणे[४]ऽस्मिन्मासिकश्राद्धे[५] सपत्नीकपित्रर्थं त्वां निमन्त्रय इति निमन्त्र्य पित्र्ये क्षणः क्रियतामिति[६] ब्रूयात् । ॐ तथेति विप्रः । अ[७]स्मिन्मासिकश्राद्धे[८] सपत्नीकपितामहार्थं त्वां निमन्त्रये पित्र्ये क्षणः क्रियतामिति पितामहार्थविप्रनिमन्त्रणे । अ[९]स्मिन्मासिकश्राद्धे[१०] सपत्नीकप्रपितामहार्थं त्वां निमन्त्रये पित्र्ये क्षणः क्रियतामिति प्रपितामहार्थविप्रनिमन्त्रणे ।

 एवं मातामहपार्वण ऊहेन विप्रत्रयं निमन्त्रणीयम्[११] । अत्र पितृविप्रा आ ब्रह्मन्नित्यनुवाकं जपेयुः ।

 एवं च पृथग्वैश्वदेवपक्षे दश ब्राह्मणाः । तन्त्रपक्षेऽष्टौ । अत्यशक्तौ देवार्थ एकः पितृपार्वणार्थ एको मातामहपार्वणार्थ एक इत्येवं विप्रत्रयम् । पृथग्वैश्वदेवपक्षे चत्वारो ब्राह्मणाः । यदा त्वेक एव ब्राह्मणस्तदा तत्रैव पार्वणद्वयम् । देवस्थाने शालग्रामशिलादि संस्थाप्य देवकार्यं कर्तव्यम् । तदीयप्रतिवचनानि तु स्वयमेव वदेल्लोपो वा[१२] । श्राद्धसमाप्तौ तदीयमन्नमग्नौ प्रक्षिपेत्, ब्रह्मचारिणे वा दद्यात् । यदि सर्वथा ब्राह्मणालाभस्तदा दर्भवटूंस्तत्तत्स्थाने निधाय प्रतिवचनयुक्तं सर्वं श्राद्धं कर्तव्यम् ।

 स्वस्य निमन्त्रणासामर्थ्ये सुतेन शिष्येण सजातीयेन येन केनचित्साधुनाऽऽप्तेन वा कारयेत् ।

 ततो यज्ञोपवीत्येव महानसे रेखालेखनावोक्षणे कृ[१३]त्वोत्तरतः पुरतोऽवोक्ष[१४]


१३७
 
  1. ङ. स्य जानुद्वयमाल ।
  2. च. प्रौ निम ।
  3. ङ. त् । ततः ।
  4. ङ. णेऽस्मत्पितुर्मासि ।
  5. ङ. द्धे पि ।
  6. ङ. ति पित्रर्थे विप्रं निमन्त्रयेत् ।
  7. ङ. अस्मत्पितामहस्य मासि ।
  8. ङ. द्धे पित्र्ये ।
  9. ङ. अस्मत्प्रपितामहस्य मासि ।
  10. ङ. द्धे पित्र्ये ।
  11. ङ. म् । ए ।
  12. ङ. वा । सर्व ।
  13. ङ. कृत्वा तदुत्त ।
  14. ङ. क्षणशेषोत्से ।