पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८२
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पिण्डान्करोति तदा तद्धस्तात्कृतं कृतमादायाऽऽदायैव देयाः । 'एतत्ते ततामुकशर्म[१]न्ये च त्वामनु' इति पित्रे पिण्डं ददाति । 'एतत्ते पितामहामुकशर्मन्ये च त्वामनु' इति पितामहाय । 'एतत्ते प्रपितामहामुकशर्मन्ये च त्वामनु ' इति प्रपितामहाय[२] । सपत्नीकत्वाभिध्यानमात्रमत्र न तु तच्छब्दोच्चारणमपि । चतुर्थपिण्डदानपक्षे ततस्तमपि प्रपितामहपिण्डपुरोभागे प्रपितामहात्परांस्त्री[३]न्पितॄनभिध्यायंस्तूष्णीमेव दद्यात् । चतुर्थपिण्डदानाभावपक्षे प्रपितामहपिण्डपुरोभागे प्रपितामहात्परांस्त्रीनुद्दि[४]श्याऽऽस्तृते सकृदाच्छिन्ने हस्तगतं लेपं तूष्णीमेव निमृजेत् । हस्तलेपाभावेऽपि हस्तनिमार्जनमात्रं कार्यमेव । एवं मातामहाद्यर्थांस्त्रीन्पिण्डांस्तदीयरेखामनुलक्षीकृत्य तथैव दद्यात्तत्तच्छब्दोहेन । चतुर्थपिण्डदानविकल्पः पूर्ववत् । पिण्डदाने गोत्ररूपोच्चारणमपि केचित्कुर्वन्ति । ([५] अत्र नामाज्ञाने 'स्वधा पितृभ्यः पृथिविपद्भ्यः' इति पित्रे पिण्डं ददाति । 'स्वधा पितृभ्योऽन्तरिक्षसद्भ्यः' इति पितामहाय । 'स्वधा पितृभ्यो दिविषद्भ्यः' इति प्रपितामहाय । एवं मातामहादिष्वपि पितृशब्दनैव तं तं संबन्धमभिध्यायन्दद्यात् । एतस्य पितृशब्दस्य सपिण्डीकरणश्राद्धजन्यपितृभावापन्नपरत्वात् । पितृवर्गे मातामहवर्गे च यद्येकस्य द्वयोर्वा नामाज्ञातं तदा मन्त्रस्तदीयस्तदीयः स्वधा पितृभ्य इत्येव । यस्य नाम ज्ञातं तावन्मात्रस्य त्वेतत्त इति द्रष्टव्यम् । यदि दत्तक्रीतादिर्द्विषिता तत्रापि पूर्वस्य पितुरपुत्रत्व एकस्मिन्पिण्डे द्वौ द्वौ पितरावुपलक्षयेत् । तत्प्रयोगस्तु पिण्डपितृयज्ञप्रयोगे द्रष्टव्यः ।) एवं पिण्डदानं कृत्वा[६] स्थापितकुम्भोदकचतुर्थभागं पात्रान्तरे गृहीत्वा तेनैव वा 'आपो देवीः स्वधया वन्दमानास्ता० मे पितॄन्' इति त्रीनुदपातान्निनयति । प्रत्येकं त्रिरिति केचित् । प्रत्येकं सकृदित्यन्ये । चतुर्थे[७] पिण्डे तूष्णीमिति केचित् । ततः स्थापितकुम्भोदकतृतीयभागं[८] तथैव गृहीत्वा तेन यथावस्थितेनैव मन्त्रेण मातामहादिषु 'अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वम्' इत्युक्त्वाऽप्रदक्षिणं पराङा वर्तते । 'स्वाहोष्मणोऽव्यथिष्यै' इति विभवात्सकृदेवोष्माणमुद्यन्तमनुमन्त्रय[९]ते । ऊष्माभावे मन्त्रलोपः । व्यावृत्त ऊष्मण्यव्यावृत्ते वा 'अमीमदन्त पितरोऽनुस्वधमावृषायषित' इत्युक्त्वा यथेतं पिण्डसंमुखो भवेत् । ततो यः स्थाल्यां शेषस्तमवघ्रायाप उपस्पृशेत्[१०] । तस्योपस्पर्शनपक्षे नोदकस्पर्शः । ततः पवित्रे ग्रन्थिंमुक्त्वा विसृज्य हस्तौ पादौ च प्रक्षाल्याऽऽचम्यान्ये पवित्रे धृत्वाऽत्राऽऽञ्ज


  1. ङ. र्मन्सपत्नीक ये च ।
  2. ङ. य । च ।
  3. ङ. स्त्रीनु ।
  4. ङ. द्दिश्य बर्हिषि ह ।
  5. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  6. ङ. त्वा श्रा ।
  7. ङ. च. र्थेऽपि पि ।
  8. ङ. णं गृ ।
  9. ङ. ते व्या ।
  10. ङ. तृ । उपस्पृशति वा । अस्मिन्पक्षे नो ।