पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७८
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

मन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्तेः स्वधा कव्यं न ममेति विप्रवामभागे तिलोदकं विसृजेत् । एवं पितामहाय प्रपितामहाय मातामहादिभ्यश्चोहेन । एकश्चेद्विप्रस्तदा पितृपितामहप्रपितामहा अमुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकाः, मातामहमातुःपितामहमातुःप्रपितामहा अमुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीका देवता इदमिदमन्नं कव्यमयं० वटच्छायेयम् । अस्मत्पितृपितामहप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्यः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्य इदमन्नममृतरूपं० स्वधा कव्यं न ममेत्येवं प्रयोगः । ततः 'ये चेह पितरो ये० स्वधा नमः' इति पितॄनुपतिष्ठते ।

 ततः--

"देवताभ्यः पितृभ्यश्च० नमो नमः ।
सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु[१]
ईशानः पितृरूपेण महादेवो महेश्वरः ।
प्रीयतां भगवानीशः परमात्मा सदाशिवः" ॥

 इति पठित्वा तिलोदकं यवोदकं चाऽऽदाय 'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ० समाधिना । हरिर्दाता हरिर्भोक्ता० भोजयते हरिः । चतुर्भिश्च चतुर्भिश्च० प्रसीदतु[२] । एको विष्णुर्महद्भूतं० विश्वभुगव्ययः' इति पठित्वा येषामुद्दिष्टं तेषामक्षय्या तृप्तिरस्तु । पितृस्वरूपी परमेश्वरः प्रीयतां न ममेति भूमौ जलं प्राचीनावीत्येव विसृज्य[३] पितृभ्यो नम इति पितॄन्नमस्कुर्यात् ।

ततः--

"ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्करजनीशगणेश्वराणाम् ।
क्रौच्चामरेन्द्रकलशोद्भवकश्यपानां पादान्नमामि सततं पितृमुक्तिहेतून्" ॥

 इत्युक्त्वा यज्ञोपवीती परिविष्टान्नेषु सर्पिरासिच्य प्रणवं समस्तव्याहृतीर्मधु वाता इति तिस्र ऋचश्चोक्त्वा[४], एतच्छ्राद्धमच्छिद्रं जायतामिति विप्रान्पृष्ट्वा


  1. ङ. तु । इ ।
  2. ङ. तु । इत्युक्त्वा ये ।
  3. ङ. ज्य नमस्कृत्य, ई ।
  4. ङ. क्त्वा दे ।