स्फ्यया वेदेर्दक्षिणतः संस्कृते स्थण्डिले 'ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परा पुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोक्तु लोकात्' इत्यग्नेरेकोल्मुकं धूपायत्पराचीनं हृत्वा निदधाति । यस्मिन्कस्मिंश्चित्पात्रे निधानमिति पक्षे न स्थण्डिलकरणादि । ततस्तं प्रज्वाल्य पूर्ववत्परिस्तृणाति । एतदतिप्रणयनं पिण्डदानाङ्गं तदभावे नेति वैजयन्तीकारः । ततो ) यज्ञोपवीती दक्षिणं जान्वाच्य मेक्षणेनोद्धृतान्नैकदेशमुपहत्य 'सोमाय पितृपीताय स्वधा नमः' इति प्रथमामाहुतिं जुहोति । सोमाय पितृपीतायेदं० । पुनरुपहत्य 'यमायाङ्गिरस्वते पितृमते स्वधा नमः' इति तृतीयाहुत्यर्थं कानिचित्सिक्थान्यवशेष्य द्वितीयामाहुतिं जुहोति । यमायाङ्गिरस्वते पितृमत इदं० । 'अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः' इति मेक्षणे यान्यवशेषितानि सिक्थानि तेस्तृतीयामाहुतिं जुहोति । अग्नये कव्यवाहनाय स्विष्टकृत इदं[१]० । होमे पितृतीर्थनियमो न । प्रथमाहुतिसंबधिसिक्थानामपि होम इति केचित् । अस्मिन्पक्षे प्रथमाहुतिसंबन्धिमेक्षणसंलग्नानि सिक्थानि पात्रान्तरे निहितानि द्वितीयाहुत्यवशेषितमेक्षणस्थसिक्थेषु प्रक्षिप्य तेन तृतीयाहुतिर्होतव्या । अवशेषणमर्धभागस्येति केचित् । अवशेषितसिक्थाभावे लोप इति केचित् । स्थानात्कानिचित्सिक्थान्यादाय तेन जुहोतीत्यन्ये । उभयपक्षेऽपि प्रायश्चित्तार्थमनाज्ञातत्रयजपविष्णुस्मरणे कर्तव्ये[२] । प्रतिपार्वणं होमावृत्तिः । सकृदेव वा । ततस्तूष्णीं मेक्षणमनुप्रहरति । इति होमः[३] ।
दक्षिणाग्नौ होमक्रियायां होमोत्तरमतिप्रणयनम् । ततो हस्तौ प्रक्षाल्य यज्ञोपवीत्येव देवविप्रभोजनपा[४]त्रयोरुपस्तीर्य प्राचीनावीती पित्र्यविप्रभोजनपा[५]त्रेषूपस्तृणाति शब्दमकुर्वन् । ततो देवपूर्वकं स्वयमन्नपरिवेषणं यज्ञोपवीत्येव कुर्यात् । अशक्तौ पत्न्यादिभिर्वा कारयेत् । तत्राऽऽदावोदनं ततः पायसं भक्ष्यं[६] व्यञ्जनादि घृतं च सूपमन्ते । ([७]लवणं साक्षाद्धस्तेन न परिवेषणीयम् । घृतपात्रं भोजनपात्राद्बहिर्निधाय घृतं परिवेषणीयम् । आमासु पक्वमैरय इत्योदनपरिवेषणमन्त्रः । पयः पृथिव्यामिति पायसपरिवेषणमन्त्रः । आयुर्दा अग्न इति घृतपरिवेषणमन्त्रः ।) परिवेषणे देवपूर्वकत्वनियमः प्रथमे परिवेषण एव न द्वितीयादिषु[८] । मन्त्रेण प्रथममेव परिवेषणम् । घृतं पितृपूर्वकमेव परि