पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०७४
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

मसि' इतिमन्त्रावृत्त्या पात्रद्वयं दर्भेषु दक्षिणसंस्थं न्युब्जमुत्तानं वा देवपात्रस्थापनानुसारेण स्थापयेत् । उत्तानपक्षे तदुपरि विप्रहस्तस्थान्दर्भान्निक्षिप्यान्यैर्दर्भैर्दक्षिणाग्रैराच्छादनं कार्यं गन्धपुष्पप्रक्षेपणं च । मातामहपात्रस्था अप्यपः पितृपात्र एव निक्षिप्यैकमेव वा पात्रं स्थापयेत् । आश्राद्धसमाप्ति चालनं न कुर्यात् । यष्ट्यादिनाऽपि न स्पृशेत् । ततस्तिलोदकं दत्त्वाऽस्मत्पितः शर्मन्गोत्र वसुरूप सपत्नीकेत्याद्यूहेन 'अमी ते गन्धाः' इत्याद्यैस्तत्तच्छब्दैर्गन्धादीन्प्राचीनावीती पूर्ववद्दद्यात् । सर्वत्र स्वधा न ममेत्यनुषङ्गः । प्रत्युपचारं तिलोदकदानम् । एकब्राह्मणपक्षे त इत्यत्र व इत्यूहः । प्रतिवचनादिकं सर्वमन्यद्देवपूजनवत् । इति पित्रर्चनम् ।

 ततः--

"यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्" इति पठित्वा,
"देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः" इति त्रिवारं पठेत् ।

 ततो यज्ञोपवीत्याचम्य श्राद्धप्रदेशपतितयवतिलादिकमपसार्य हस्तेन देशं संमार्ज्य पूर्वोक्तलक्षणलक्षितगोर्गोमयेन भस्मना गौरमृत्तिकया नीवारचूर्णेन वा प्रादेशमात्रे षडङ्गुले वा मण्डले विधाय तयोरुपरि प्रागग्रान्सयवान्दर्भान्निक्षिप्य प्राचीनावीती पित्र्यविप्रभोजनपात्रस्थानेषु गोमयाद्यन्यतमेन पूर्वोक्तद्रव्येण वर्तुलानि मण्डलानि प्रादेशमात्रविष्कम्भानि(णि) षडङ्गुलविष्कम्भानि(णि) वा विधाय तदुपरि दक्षिणाग्रान्सतिलान्कुशान्निक्षिपेत् । ततो देवनैवेद्यपात्रस्थाने यज्ञोपवीती पूर्वोक्तगोमयाद्यन्यतमद्रव्येण देवमण्डलवन्मण्डलं विधाय तदुपरि प्रागग्रान्सयवान्दर्भान्निक्षिप्य देवविप्रमण्डलयोरुपरि सौवर्णानि तदभावे कांस्यमयानि तदभावे मध्यमपर्णवल्लीपलाशव्यतिरिक्तपलाशपर्णमधूकाम्रप्लक्षग्राम्यकदल्याद्यन्यतमपात्राणि संस्थाप्य तत्समीपे लघुपात्राणि च संस्थापयेत् । ततः प्राचीनावीती पित्र्यविप्रभोजनपात्राणि लघुपात्राणि च तथैव संस्थापयेत् । पूर्वं पित्र्यविप्रभोजनपात्राणां संस्थापनं पश्चाद्दैवविप्रभोजनपात्रयोः।) ततः पितृपात्राणां परितोऽप्रदक्षिणं भस्ममर्यादां कृत्वा यज्ञोपवीती देवपात्र[१]योः परितः प्रदक्षिणं भस्ममर्यादां कुर्यात्[२] । अत्र पित्र्ये बृहत्सामेति दैवे रक्षोहणो वलगहन इति(त्यादि) नाष्ट्राणा हन्तेति(त्यन्तं) पठन्ति शिष्टाः । ततः प्राचीनावीती पित्र्यविप्रदक्षिणह[३]स्तप्रक्षालनं कृत्वा यज्ञोपवीती देवविप्रदक्षिणह[४]स्तप्रक्षालनं कुर्यात् । ततो यज्ञोपवीत्याचम्योपस्तीर्णं पात्रं


  1. ङ. पात्राणां प ।
  2. ङ. त् । त ।
  3. हरताजलेन प्रक्षाल्य य ।
  4. हस्तौ जलेन प्रक्षालयेत् ।