पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०६७
संस्काररत्नमाला ।

प्रस्य । चतुर्थ्या विभक्त्या वाऽऽसनदानम् । देवविप्राभ्यामासनदानमुदङ्मुखेनैव कार्यम् । अन्यत्र तदभिमुखेनोदङ्मुखेन वा । सति संभव आसनदानोत्तरं तत्तदासनसमीपे तिलतैलघृताद्यन्यतमप्रशस्तस्नेहपूरितसूज्ज्वलदीपवत्येकैका दीपिका देया । एवं पित्र्यविप्रार्थासनसमीपेष्वपि । ततः 'स इषुहस्तैः स निषङ्गिभिर्वशी स स्रष्टा सयुध इन्द्रो गणेन । स मृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता । नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमः । नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः । ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः । तेषा सहस्रयोजनेऽव धन्वानि तन्मसि' इति यजुर्वेदिनौ देवविप्रौ पठेताम् । 'इन्द्र दृह्ययाम कोशा अभूवन्० वाशीमन्त ऋष्टिमन्तो मनीषिणः० । स इषुहस्तैः स निषङ्गिभिर्वशी०' इति ऋग्वेदिनौ चेद्देवविप्रौ तदा तावेतान्मन्त्रान्पठेताम् । ततः पुरूरवसंज्ञकविश्वदेवार्थं त्वया क्षणः करणीयः । इति प्रथमदेवविप्रं वदेत् । ॐ तथेति प्रतिवचनम् । आर्द्रवसंज्ञकविश्वदेवार्थं त्वया क्षणः करणीय इति द्वितीयदेवविप्रं वदेत् । ॐ तथेति प्रतिवचनम् । ततः प्रथमदेवविप्रस्य पुरत आसनाद्द्वादशाङ्गुलपरिमितं स्थलं त्यक्त्वा तत्र कूर्चेन यवोदकेन भुवं प्रोक्ष्य तत्र प्रागग्रं प्राक्संस्थं दर्भद्वयं निधायोभयत्र प्राक्संस्थं दशाङ्गुलविस्तृतमेकैकं पात्रं न्युब्जं निधाय कूर्चेन यवोदकेन प्रोक्ष्योत्ताने कृत्वा सममन्तर्गर्भरहितं साग्रं दर्भद्वयं गृहीत्वाऽग्रभागे प्रादेशमात्रमवशेष्य तृणं काष्ठं वाऽन्तर्धाय 'पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु' इति तत्रासिदेनान्येन वा दात्रेण च्छिनत्ति न नखेन । शुद्धोदकं स्पृष्ट्वा तूष्णीमेव यवोदकेनोन्मृज्यैवमेवान्यत्पवित्रं कृत्वोन्मृज्य तूष्णीं यवोदकेन पवित्रे पात्रे च प्रोक्ष्य तयोः पात्रयोरुपरि कृतं पवित्रद्वयं क्रमेण प्रागग्रं निधाय 'समन्यायन्त्युपयन्त्यन्याः समानपूर्वं नद्यः पृणन्ति । तमू शुचि शुचयो दीदिवा समपांनपातं परितस्थुरापः' इति मन्त्रेण 'शं नो देवीरभिष्टये । आपो भवन्तु पीतये । शं योरभि स्त्रवन्तु नः' इति मन्त्रेण वा प्राङ्मुख एव दैवतीर्थेन यवोदकेन पात्रद्वयमुपबिलं पूरयेत् । मन्त्रावृत्तिः सर्वत्र । ततस्तत्सवितुरिति गायत्र्या पात्रद्वयस्था अपोऽनुमन्त्रयते । संभवात्सकृदेव मन्त्रः । तत उदङ्मुखः 'यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम्' इति मन्त्रेण 'यवोऽसि यवयास्मद्वेषो यवयारातीः' इति मन्त्रेण वा मन्त्रावृत्त्या देवतीर्थेन यवान्निक्षिपेत् । केचित्तूभयोः समुच्चयमाहुस्तत्तुच्छम् । एकमन्त्राणि कर्माणीतिपरिभाषाविरोधात् । समुच्चायकवचनाभावाच्च । तत उदङ्मुखो विप्राभिमुखो वा 'गन्धद्वारां दुराधर्षां० ह्वये श्रियम्' इति चन्दनं तयोः प्रक्षिपेत् । 'ओषधयः प्रतिमोदध्व० मासदत्' इति सतुलसीपत्राणि पुष्पाणि प्रक्षिपेत् । उभयत्र मन्त्रावृत्तिः । तूष्णीं वा क्षेपणम् । 'देवो वः सवि