पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५४
[श्राद्धाङ्गतिलतर्पणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 निषिद्धदिनानि नित्यतर्पणप्रकरणे वक्ष्यन्ते । जीवत्पितृकेणापि मातृमृताहश्राद्धोत्तरदिने तद्वर्गमात्रस्य शुक्लतिलैस्तर्पणं कार्यमेव । ([१] परेद्युः श्राद्धकृन्मर्त्य इति तर्पणाकरणे दोषश्रवणा[२]दिति केचित् ।

 अन्ये तु--

"जीवमानः पिता यस्य माता यदि विषद्यते ।
मातुः श्राद्धं सुतः कुर्यान्न कुर्यात्तिलतर्पणम्"

 इति स्मृतिसारोदाहृतवचनं[३] जीवत्पितृकस्य श्राद्धाङ्गतिलयुक्ततर्पणनिषेधकं न तु तिलरहिततर्पणनिषेधकम् । अन्यथा तिलपदवैयर्थ्यापत्तेः । तेन तिलरहितं तु भवत्येवेत्यर्थादवगम्यत इति प्रा[४]हुः ।) एवमाश्विनशुक्लप्रतिपदादिश्राद्धादिष्वपि ज्ञेयम् । तीर्थश्राद्धे दर्शश्राद्धवत् । ([५] माघ्या(ध्या)वर्षश्राद्धस्य मासिकश्राद्धवत्पूर्वमष्टकाङ्गत्वात् ।पूर्वेद्युःश्राद्धान्वष्टकाश्राद्धयोरप्यन्त एव । अन्वष्टकाश्राद्धस्या[६]नङ्गत्वे तु मासिकश्राद्धवत्पूर्वमेव ।

यत्तु--

"विवाहव्रतचूडासु वर्षमर्धं तदर्धकम् ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्" ॥

 इति तन्महालयाष्टकालभ्ययोगश्राद्धव्यतिरेकेण द्रष्टव्यम् ।

"तिथिर्तीर्थविशेषे च गयायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम्" इतिवचनात् ॥

 तिथिविशेषोऽष्टकादिः ।

यतु--

"पित्रोः क्षयाहे संप्राप्ते यः कुर्यान्नित्यतर्पणम् ।
आसुरं तर्पणं ज्ञेयं तत्तोयं रुधिरं भवेत् ॥
सर्वदा तर्पणं कुर्याद्ब्रह्मयज्ञपुरःसरम् ।
मृताहे नैव कर्तव्यं कृतं चेन्निष्फलं भवेत्" ॥

 इति पठन्ति तन्निर्मूलमेव । समूलत्वेऽपि सतिलतर्पणनिषेधपरम् । पूर्वलिखितवाक्यानुरोधात् । अन्योऽपि विशेषः--

"ज्येष्ठभ्रातृपितृज्येष्ठसपत्नमातरस्तथा ।
एतेषां तु मृताहे तु परेऽहनि तिलोदकम्" इति ॥


  1. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  2. च. णात् । यत्तु--जी ।
  3. च. नं तजीव ।
  4. च. ज्ञेयम् ।
  5. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'माघ्यावर्षादिष्वष्टकावदन्ते' । इति वर्तते ।
  6. च. स्यानेकत्वे ।