यदा कश्चित्तदोच्छिष्टं शेषं त्यक्त्वा समाहिताः ॥ |
विपद्यत इत्यत्र गृह इति शेषः । एतच्च श्राद्धविषयमिति हेमाद्रिः । अन्ये तु--अत्र श्राद्धपदाभावाद्विवाहोत्सवयज्ञेष्वित्युपक्रम्य
"भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके । |
इतिषट्त्रिंशन्मतैकवाक्यत्वान्निमन्त्रितेषु विप्रेष्वित्युदाहृतवचनविरोधाच्च विवाहादिविषयमेवेत्याहुः । श्राद्धे तु यद्यपि विष्णुना पाकोत्तरमाशौचाभाव उक्तस्तथाऽपि कर्तुरेव सः । भोक्तुस्तु दोषोऽस्त्येव ।
"अपि दातृग्रहीत्रोश्च सूतके मृतके तथा । |
इति माधवीये ब्राह्मोक्तेः ।
आदिशब्देनाऽऽशौचं गृह्यते । तच्चाऽऽह विष्णुः--
"ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं |
इति ब्राह्मं तच्छ्राद्धकालिकस्य निषेधकं न तूत्तरकालिकस्य ।
- यत्तु--
"देये पितॄणां श्राद्धे तु आशोचं जायते यदा । |
इत्यनेनाऽऽशौचानन्तरं कर्तव्यमित्युक्तं तन्मुख्यकालिकश्राद्धोपक्रमात्प्रागाशौचज्ञाने ज्ञेयम् । श्राद्धचिन्तामणौ ज्योतिषे--
"प्रतिसंवत्सरं श्राद्धमाशौचात्पतितं च यत् । |
आशौचादाशौचहेतुना । आशौचान्त्यदिनत्वेन निमित्तत्वादित्यर्थः । एतन्मासिकाब्दिकपरम् । अत एव सुदर्शनभाष्ये-- अपरपक्षे पित्र्याणीतिनियमात्कृष्णपक्षश्राद्धलोपे प्रायश्चित्तमेव न तु गौणकाले करणम् । तच्चोपवासः ।
"वेदोदितानां नित्यानां कर्मणां समतिक्रमे । |
आशौचे तु प्रायश्चित्तमपि न मुख्यकालेऽनधिकारात् ।