हेमाद्रौ वृद्धशातातपस्तु--
"पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । |
इति विकिरस्यालोपमाह । तेन विहितप्रतिषिद्धत्वाद्विकल्पः ।
व्याघ्रपादः--
"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् । |
प्रत्याब्दिककर्तव्यतामाह जातूकर्ण्यः--
"पितृवर्गस्य कुर्वीत श्राद्धं पार्वणवत्सुतः । |
अपुत्रसा(स)पत्नमातृमातामहीस्वपत्नीपितृव्यमातुलज्येष्ठभ्रातॄणामपि तद्दिने कार्यम् ।
"अपुत्रस्य पितृव्यस्य श्राद्धं पितृवदाचरेत्" इतिवचनात्, |
एतच्चैकोद्दिष्टविधिना मातामहमातामहीपार्वणव्यतिरिक्तानामेव ।
"मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्" । |
इति चतुर्विंशतिमतात् । पितृव्यभ्रातृमातॄणामेकोद्दिष्टमेव ।
"पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्" इतिवचनात् । |
माता[१] सपत्नमाता । पत्न्या अप्येकोद्दिष्टमेव ।
"पितृव्यभ्रातृपत्नीनां मातुर्नैव तु पार्वणम्" इतिवचनात् । |
पित्रोः सांवत्सरिकश्राद्धेऽप्येकोद्दिष्टविधिरुक्तो यमेन--
"सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । |
शातातपस्तु--
"सपिण्डीकरणादूर्ध्वं कुर्यात्पार्वणवत्सदा । |
अत्र देशाचारायद्व्यवस्थितविकल्प इति विज्ञानेश्वरः ।
"भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च । |
- ↑ क. ङ साप ।