पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
९९१
संस्काररत्नमाला ।

सगोत्राः । मन्त्रसंबन्धा ऋत्विक्शिष्याचार्यादयः । एतद्व्यतिरिक्तान् ।) यदि योन्यादिसंबन्धरहिता वृत्तादिगुणहीना एवं लभ्यन्ते तदा वृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्य इत्यादि धर्मसूत्रतो ज्ञेयम् । अत्र सोदर्यापिशब्दाभ्यां गुणवन्तो योन्यादिसंबन्धिनोऽपि भोजयितव्या इति सूचितम् ।

तथा च मनुः--

"एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यांश्च भोजयेत्" इति ॥

 नार्थापेक्षो भोजयेत् । अर्थापेक्षः प्रयोजनापेक्षः प्रयोजनमपेक्षमाणः । अस्मिन्भोजित इदं मम कार्यं भविष्यतीति बुद्ध्या न भोजयेदित्यर्थः । अग्निमुपसमाधायेति । अग्निरौपासनाग्निः । सर्वाधानिनो[१] विधुरादेर्लौकिकाग्निरेव । लौकिकाग्नौ होमेऽयाश्चेत्यादिविधिनोत्पाद्य तमग्निं होमार्थमुपसमादधाति । श्राद्धपाकस्तु लौकिकाग्नावेव न तु गृह्याग्नौ । नचाग्नौकरणस्यौपासनाग्निसाध्यत्वात्तदर्थस्य पाकस्यापि यः प्रधानस्य कालः सोऽङ्गानां स देशः स कर्ता सोऽग्निरिति परिभाषया तत्रैव क्रियाऽऽस्तामिति वाच्यम् । सूत्रकृताऽन्नसंस्कारब्राह्मणनिमन्त्रणोत्तरमग्न्युपसमाधानस्योक्त्या परिभाषाबाधस्य ज्ञापनात्[२] । औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तनैता आहुतीर्जुहोतीति वैश्वदेवप्रकरणस्थसूत्रात् औपासनेन साकं पचनस्य विकल्पकरणेनौपासने पचनत्वमेव नास्तीति ज्ञापितत्वेन परिभाषायाः प्रवृत्तेरेवाभावाच्च । अतो लौकिकाग्नावेव पाको न गृह्याग्नाविति । एवं मासिश्राद्धादिष्वपि ज्ञेयम् । दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्येति । ततस्तमग्निं परिस्तृणाति पुरस्ताद्दक्षिणाग्रैर्दक्षिणतः प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैरित्यर्थः । दक्षिणाप्रागाग्नेयी तदभिमुखाग्रैरित्येवं वा । एकपवित्रेणाऽऽज्यं संस्कृत्येति वाच्य एकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्य स स्कृत्येतिगुरुनिर्देशः प्रदर्शनार्थः । तेन प्रणीतादिपवित्रकार्यमपि तेनैव स्यादिति । प्रसव्यं परिषिच्येति । देव सवितरित्यनेन यः परिषेकस्तं प्रसव्यं परिषिच्येत्यर्थः । एतामेव दिशमभ्यपः प्रसिञ्चति । एतामेव दक्षिणामेव दिशं प्रत्यपः प्रसिञ्चति, यथा दूरं गच्छन्ति तथाऽञ्जलिनाऽपः सिञ्चति आपो देवीरित्यनेन । एतच्छब्दस्य सर्वनामत्वेन प्रसिद्भिवाचित्वात्पितृकर्मणि दक्षिणावृद्धि पितृणाम्, एषा वै पितृणां दिगित्यादिषु श्रुतिषु तस्या एव प्रसिद्धत्वादेतच्छ


  1. ख. ङ. नो दक्षिणाग्निः । विधुरादिः पूर्वोक्तविधि ।
  2. ख. ङ. त् । यद्यौपासनाग्नौ पाक इष्टः स्यात्तदाऽग्निमुपसमाधायान्नं संस्कृत्येन्येव ब्रूयात् । अ ।