पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६२
[वैश्वदेवेऽतिथिपूजनम्]
भट्टगोपीनाथदीक्षितविरचिता--

 विष्णुपुराणेऽपि--

"ततो गोदोहमात्रं तु तिष्ठेत्कालं गृहाङ्गणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं च यथेच्छया" इति ॥

 तत्र कीदृशोऽतिथिरित्याकाङ्क्षायामाह वैयाघ्र[१]पद्यः--

"क्षुधार्तस्तृषितश्चैव स्नातो गृहमुपागतः ॥
प्रयत्नेन तु संपूज्यः सोऽतिथिः स्वर्गसंक्रमः" इति[२]

 पराशरोऽपि--

"इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः" इति ॥

 इष्टः सख्यादिः ।

 तस्य च भोजनीयत्वं याज्ञवल्क्येनोक्तम्--

"भोजयेच्चाऽऽगतान्काले सखिसंबन्धिबान्धवान्" इति ।

 द्वेष्यस्य भोजनीयत्वं मनुना निन्दितम्--

"काममभ्यर्चयेन्नित्यं नातिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेष्य निष्फलम्" इति ॥

 एवं सत्यरिमित्रविवेकः श्राद्धादौ यथा क्रियते तथैवातिथावपि तत्प्रसक्तौ तन्निराकरणायेष्टो वा यदि वा द्वेष्य इत्युक्तम् ।

 मूर्खे भोजनीयत्वं स्मृत्यन्तरे निषिद्धम्--

"नष्टशौचे व्रतभ्रष्टे वेदशास्त्रविवर्जिते ।
दीयमानं रुदत्यन्नं किं मया दुष्कृतं कृतम्" इति ॥

 पण्डितस्य भोजनीयत्वं मनुना प्रशंसितम्--

"श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्" इति ॥

 एवं सति श्राद्धादाविव वैश्वदेवान्तिके पण्डितमूर्खविवेकप्रसक्तौ तन्निराकरणायोक्तं मूर्खः पण्डित एव वेति । वैश्वदेवान्तिकशब्देन देवयज्ञभूतयज्ञपितृयज्ञानामुपरि मुहूर्ताष्टमभागपरिमितः काल उच्यते ।

 तथा च मार्कण्डेयपुराणम्-- "मुहूर्तस्याष्टमं भागम्" इति ।

 अत एव तस्मिन्काले समागमनमेवातिथिलक्षणं नेतरद्विद्यादि । संक्रम्यतेऽनेनेति संक्रमः । स्वर्गस्य संक्रमः स्वर्गसंक्रमः । स्वर्गप्राप्तिरिति यावत् ।

 तथा चाऽऽश्वमेधिके--

"क्षुत्पिपासाश्रमार्ताय देशकालगताय च ।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता" इति ॥


  1. क. घ्रपादः--क्षु ।
  2. च. ति । पारा ।