पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवेऽग्न्यायतनविचारः]
९३९
संस्काररत्नमाला ।

 भग्न्यायतनं स्मृतिसंग्रहे--

"वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ।
अरत्निमात्रं तत्कार्यं विंशत्यङ्गुलमेव वा ॥
प्रादेशमात्रमथवा चतुरश्रं समन्ततः" इति ॥

स्मृतिसारे--

"वैश्वदेवे प्रकुर्वीत कुण्डमष्टादशाङ्गुलम् ।
मेखलात्रयसंयुक्तं द्विमेखलमथापि वा ॥
स्यादेकमेखलं वाऽपि चतुरश्रं समन्ततः ।
अपि ताम्रमयं प्रोक्तं कुण्डमत्र मनीषिभिः" इति[१]

 तत्रैव--

"न चुल्ल्यां नाऽऽयसे पात्रे न भूमौ न च खर्परे ।
वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा" इति ॥

 अपि वेत्यनन्तरं[२] कुर्यादिति शेषः । कुर्यात्स्थण्डिलकुण्डयोरित्यपि पाठः कुत्रचित् । चुल्ल्यामायसे पात्रे भूमौ खर्परे वा न वैश्वदेवं प्रकुर्वीत किंतु कुण्डे वा स्थण्डिले वा कुर्यादित्यर्थः । अत्र चुल्ल्यायसपात्रखर्परनिषेधात्कुण्डस्थण्डिलासंभवेऽपक्वमृन्मयपात्रकुण्डाकृतिरहितताम्रादिपात्रपक्वमृन्मयपात्राणामभ्यनुज्ञा गम्यते ।

"( [३]वैश्वदेवं प्रकुर्वीत स्वशाखाविहितं ततः ।
संस्कृतान्नैश्च विविधैर्हविष्यव्यञ्जनान्वितैः ॥
तैरेवाम्नैर्बलिं दद्याच्छेषमाप्लाव्य वारिणा ।
कृतापसव्यः स्वधया सर्वं दक्षिणतो हरेत्"

 इति व्यासोक्तेश्च । संस्कृतानि पक्वानि । चस्त्वर्थे । हविष्यव्यञ्जनान्वितः । हविष्यरूपाणि व्यञ्जनानि तैरित्यर्थः । वैश्वदेवं प्रकुर्वीतेत्यनेन होमात्मकं कर्मोच्यते । तैरेवान्नैर्बलिं दद्यादिति पृथुमुपादानात् । हविष्यव्यञ्जनान्वितैरित्युभयत्रान्वेति । तेन हविष्यरूप[४]पत्राद्यन्वितेनान्नेन होमः सिध्यति । यत्तु बलावेव सूपसंसर्जनविधानं तदहविष्यव्यञ्जनाभिप्रायम् । तस्यापि हविष्यत्वे होमो[५] भवति तेनेति द्रष्टव्यम् । अथवा बलावेव सूपसंसर्जनविधानान्नैव होमे हविष्यस्यापि सूपस्य संसर्ग इति द्रष्टव्यम् । सूपग्रहणं पत्रशाखा(का)द्युपलक्षणम् । बौधायनेन तेषामपि संसर्गविधानात् । पत्रादीनामपि हविष्यत्वे तेषामपि होमे


  1. च. ति । प्रायश्चित्तहोमादौ--न ।
  2. ङ. रं. चरेदि ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः । अयं च न पूर्वापरसंगतः ।
  4. च. पपात्रा ।
  5. च. मोऽपि भविष्यति ।