सूना हिंसास्थानानि । कण्डन्युलूखलादि । पेषणी दृषदुपलादि । चुल्ली पाकस्थानम् । जलकुम्भ उद[१]ककलशः । उपस्करः शूर्पादि । अवस्कर इतिपाठे मार्जन्यादि द्रष्टव्यम् । एताः सूनाः स्वस्वकार्ये प्रापयन्बाध्यते पापेन युज्यत इत्यर्थः । न च कण्डन्यादिनिमित्तश्रवणान्नैमित्तिकत्वं महायज्ञानामिति वाच्यम् । अहरहरिति वीप्सयाऽऽकाष्ठादितिवचनेन भोजनलोपेऽपि कर्तव्यताप्रतिपादनेन च सूत्रकृता नित्यत्वस्यैव प्रतिपादनात् ।
"पञ्चयज्ञविधानं तु गृही नित्यं न हापयेत्" इति शङ्खेन,[२] |
इति संवर्तेन च स्पष्टतयाऽभिधानाच्च[३] । ततःपदेन विवाहोत्तरत्वमुच्यते । अत्र गृहीतिश्रवणाद्गृहस्थानामेव ब्राह्मणादीनामधिकारः । अत आत्मसंस्कारार्थमनुष्ठिते सति तेनैव पञ्चसूनादोषपरिहारोऽन्नसंस्कारश्च सिध्यति । ([४]तेनैकादश्यादावुपवासेऽपि वैश्वदेवानुष्ठानमत एव सिध्यति । यानि त्वेकादश्यादावन्नस्य दोषप्रतिपादकवचनानि तान्युपवासविधिस्तावकफलत्वेन चरितार्थानि न वैश्वदेवनिवृत्तिपराणि । तत्त्वेऽपि पुष्पफलजपजलकाष्ठादीनामनिषिद्धत्वं स्वीकृत्य पुष्पादिभिः श्रीशमाराधयतस्तेनैव वैश्वदेवकरणे न क्वापि हानिः । एवं चैकादश्यादौ वैश्वदेवादिनित्यकर्महानौ मनूक्तस्य सामान्यप्रायश्चित्तस्योपवासरूपस्याऽऽचरणेन नित्यनैमित्तिकसंनिपाते प्रसङ्गसिद्धिं मन्वानाः क्रियमाणोपवासं प्रायश्चित्तार्थमेवाऽऽचरन्तः प्रायो भवन्ति मुख्यस्य प्रायश्चित्तान्तरस्याविधानादिति द्रष्टव्यमिति सुस्थम् ।)
अत्र केचिदात्मसंस्कारार्थं वैश्वदेवं करिष्य इति संकल्पं कुर्वन्ति । केचित्तु[५]--पञ्चसूनादोषपरिहारार्थमन्नसंस्कारार्थमात्मसंस्कारार्थं च वैश्वदेवं[६] कर्म करिष्य इति संकल्पं वदन्ति । अन्ये तु--श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवं कर्म करिष्य इत्येव[७] संक[८]ल्पो न त्वात्मसंस्कारसिद्ध्यर्थमित्येवं संकल्प इत्याहुः ।
अथ देशः ।
स च स्मृतिमञ्जर्याम्--
"गृहस्य मध्यदिग्भागे वैश्वदेवं समाचरेत् । |