स्पर्शनिमित्तस्नानविधेस्तत्तन्निमित्ताचमनविधेश्च साहचर्यदर्शनात् । अन्यत्रेत्यादिना पितृकर्मणि दाहादावनुपनीतस्यापि मन्त्रोच्चारणं भवतीति ज्ञाप्यते । तदपि कृतचूडस्य त्रिवर्षस्य च ज्ञेयम् ।
"अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम् । |
एतच्चौरसविषयम् ।
"पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः । |
कृतशौचमपि नाग्निहोत्रादिषु नियुञ्ज्यात् ।
तदाह गौतमः--"न त्वेनमग्निहवनबलिहरणयोर्नियुञ्ज्यात्" इति । तस्य मन्त्रहीनत्वादित्यभिप्रायः ।
न च मन्त्रान्ग्राहयित्वा विनियोज्य इति शङ्कनीयम् । 'न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमेन 'नाभिव्याहारयेद्ब्रह्म स्व[१]धानिनयनादृते' इति सुमन्तुना च मन्त्रोच्चारणस्य निषेधाद्विशेषवचनाभावाच्च ।
उपनयनकर्मण आरम्भात्प्रागेव कुमारसंबन्धिकर्मोपयुक्तमन्त्रान्कुमारं पाठयेत् । इति(अन्यथा) कर्मकाले मन्त्राध्ययनासंभवेन तत्साध्यस्य कर्मणोऽप्यसंभवापत्तेः । न चाऽऽचार्येण तदा वाचनीय इति वाच्यम् । तादृशविधेरेवाभावात् । तदैव वाचयीत वा । इत्यनुपनीतधर्माः ।
अथ बालपितृधर्माः ।
विष्णुधर्मोत्तरे--
"अपथ्यं न च बालानां तथा भार्गव पश्यताम् । |
पश्यद्भिः पित्रादिभिरपथ्यं निवारणीयमित्यर्थः ।
बालकाश्चानुनेयाः स्युर्धर्मकामैः सदा नरैः ॥ |
धर्मसूत्रेऽपि--"अतिथीनेवाग्रे भोजयेत्कुमारान्रोगसंयुक्तान्स्त्रीश्चान्तर्वत्नीः" इति ।
- ↑ पदद्वयमधिकं सुमन्तुवचने तदभावात् । तत्स्थाने यावन्मौञ्जी न बध्यत इति वा पाठ्यम् ।