पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८८
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( ऋतुविशेषेण संभोगनियमादिविचारः )
 

 बहुपुत्रवतीमित्यत्र बहुपुत्रशब्देनैकादशप्रभृतिरेव संख्या ग्राह्या ।

"दशास्यां पुत्रानाधेहि" इति लिङ्गात् ।

 ऋतुविशेषेण संभोगनियमः कामशास्त्रे--

"पक्षान्निदाघे हेमन्ते नित्यमन्यर्तुषु त्र्यहात् ।
स्त्रियं कामयमानस्य जायते न बलक्षयः" इति ॥

 यत्तु वाग्भट्टीये--

" त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षनिदाघयोः ।
सेवेत कामतः कामं हेमन्ते शिशिरे बली" ॥

 इत्युक्तं, तत्र बलीत्यभिधानेन दृष्टार्थत्वोक्तेर्यथाबलं व्यवस्था ।

 रतिदेशमाह पैठीनसिः--

"संवृत्ते देशे मैथुनायाऽऽह्वयीत" इति । संवृत्ते परिश्रिते ।

 देशविशेषनिषेधो विष्णुपुराणे--

"देवद्विजगुरूणां च व्यवायी नाऽऽश्रमे भवेत् ।
चैत्यचत्वर[१]सीरेषु न चैव च चतुष्पथे" इति ॥

 देवद्विजगुरूणामाश्रमे व्यवायी न भवेदित्यन्वयः । व्यवायो मैथुनं तदस्यास्तीति व्यवायी ।

 रतिसमये दीपसांनिध्यमुक्तं रतिप्रकाशे--"दीपसमीपे रतिं कुर्यात्" इति ।

 ज्योतिर्निबन्धे--

"दीपेऽप्रदीप्ते यः सङ्गं करोति मनुजो यदि ।
यावज्जन्म दरिद्रत्वं लभते नात्र संशयः" इति ॥

 अयं च दीपो भार्ययैव प्रज्वालनीयः ।

 तदुक्तं तत्रैव--

"भार्यैव दीपं प्रज्वाल्य पत्युश्चित्तानुवर्तिनी ।
नमस्कृत्य तु भर्तारं रमयेत्सह तेन तु" इति ॥

 दीपे शलाकां प्रज्वाल्य तेन दीपप्रज्वालनं कार्यं न तु साक्षाद्दीपे ।

"दीपेन दीपं प्रज्वाल्य दरिद्री(द्रो) व्याधिमान्भवेत्" ।

 इति लैङ्गे दोषस्योक्तेः ।

 दीपलोपनं पुरुषस्य निषिद्धम् ।

"दीपप्रलोपनं पुंसां कूश्माण्डच्छेदनं स्त्रियाः ।
अचिरेणैव कालेन वंशच्छेदो भवेद्ध्रुवम्" इति वचनात् ॥

 एतच्च सार्वत्रिकं द्रष्टव्यम् ।



  1. ग. सीतेषु ।